________________
भवभावना- १३५
[अलीकैर्वञ्चयसि तदा कूटक्रयादिकैर्मुग्धजनम्। पैशुन्यादीनि करोषि हृष्टः प्रलपसि इदानीम्॥१३१॥]
[ अव] अलिकैर्वञ्चयसि तदा पूर्वभवे मुग्धजनम् । कथम्भूतैरित्याहकूटक्रियादिभिरादिशब्दात् कूटसाक्षादिपरिग्रहः । शेषं गतार्थम्॥१३१॥
अदत्तादानमाह
[मू] तइया खणेसि खत्तं, घायसि वीसंभियं मुससि लोयं। परधणलुद्धो बहुदेसगामनगराइं भंजेसि॥१३२॥
[तदा खनसि क्षत्रं घातयसि विश्रब्धं मुष्णासि लोकम्। परधनलुब्धो बहुदेशग्रामनगराणि भनक्षि॥१३२॥] [अव] सुगमार्थारि(इ)ति॥१३२॥
[मू| तेणावि' पुरिसयारेण विणडिओ मुणसि तणसमं भुवणं। परदव्वाण विणासे, य कुणसि पोक्करसि पुण इहिं॥१३३॥ [तेनापि पुरुषकारेण विनटितो जानासि तृणसमं भुवनम्। परद्रव्याणां विनाशान् च करोषि पूत्करोषि पुनरिदानीम्॥१३३॥]
[मू] मा हरसु परधणाइं, ति चोइओ भणसि धिट्टयाए य। सव्वस्स वि परकीयं, सहोयरं कस्सइ न दव्वं॥१३४॥
३७
[मा हर परधनानीति चोदितो भणसि धृष्टतया च।
सर्वस्यापि परकीयं सहोदरं कस्यचिन्न द्रव्यम् ॥१३४॥]
[अव] मा गृहाण परधनानीति गुर्वादिना प्रेरितो धृष्टतयोत्तरं करोषि । कथम्भूतमित्याह–सर्वस्यापि परकीयमेव भवति, न तु जायमानेन सह द्रव्यं केनापि जायते येन तत्तस्यात्मीयं भण्यते, अन्यस्य तु परकीयम्। शेषं सुबोधम्॥१३४॥
मैथुनमाह
[मू] तझ्या परजुवईणं, चोरिय' रमियाई मुणसि सुहियाई । अइरत्तो वि य तासिं, मारसि भत्तारपमुहे य ॥ १३५॥
[तदा परयुवतीनां चौर्यरतानि जानासि सुखितानि। अतिरक्तोऽपि च तासां मारयसि भर्तृप्रमुखाँश्च॥१३५॥]
१. तेण वि य इति पा. प्रतौ।, २. तरदव्वेण विलासे इति पा. प्रतौ।, ३. चौइय इति पा. प्रतौ।