________________
१३८
भवभावना-४७३
[अवगतार्थो।४७२॥
लब्धायामपि मनुजत्वादिसामग्र्यां जिनधर्मश्रवणदुर्घटतामाह[मू] आलस्समोहऽवन्ना, थंभा कोहा पमायकिविणत्ता। भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा॥४७३॥ _ [आलस्यमोहावज्ञाभ्यः स्तम्भात् क्रोधात् प्रमादकृपणत्वाभ्याम्।
भयशोकाभ्यामज्ञानाद् व्याक्षेपकुतूहलाभ्यां रमणात्॥४७३॥] [मू] एएहि कारणेहिं, लद्भूण सुदुल्लहं पि मणुयत्तं। न लहइ सुइं हियकरिं, संसारुत्तारणिं जीवो॥४७४॥
[एतैः कारणैः लब्ध्वा सुदुर्लभमपि मनुजत्वम्।
न लभते श्रुतिं हितकरी संसारोत्तारणी जीवः॥४७४॥] [अव] आलस्यमनुत्साहः१, मोहो गृहप्रतिबन्धरूपः२। किमेते प्रव्रजिता जानन्तीति परिणामोऽवज्ञा३। स्तम्भो गर्वः४। क्रोधः साधुदर्शनमात्रेणैवाक्षमा५। प्रमादो मद्यविषयादिरूपः६। कार्पण्यं साधुसमीपगमने दातव्यं किञ्चित् कस्यापि भविष्यतीति वैक्लव्यम७। भयं साधजनोपवर्ण्यमाननरकादिदःखसमद्भवम८। शोको इष्टवियोगादिजनितः९। अज्ञानं कुतीर्थिकवासनाजनितोऽनवबोधः१०। व्याक्षेपो गृहहट्टकृष्यादिजनितं व्याकुलत्वम्११। कुतूहलं नटनृत्यावलोकनादिविषयम्१२। रमणं द्यूतक्रीडादिकं१३। आलस्यादीनां पञ्चम्येकवचनादेतेभ्यः कारणेभ्यो जन्तुर्जिनधर्मश्रुतिं न लभते। शेषं स्पष्टम्॥४७४॥ [म] दुलहो च्चिय जिणधम्मो, पत्ते मणुयत्तणाइभावे वि। कुपहबहुयत्तणेणं, विसयसुहाणं च लोहेणं॥४७५॥
[दुर्लभश्चैव जिनधर्मः प्राप्ते मनुजत्वादिभावेऽपि।
कुपथबहुकत्वेन विषयसुखानां च लोभेन॥४७५॥] दुर्लभे जिनधर्मे प्रमाद्यन्तमात्मानं कश्चित् शिक्षयति[म जस्स बहिं बहुयजणो, लद्धो न तए वि जो बहुं कालं। लद्धम्मि जीव ! तम्मि वि, जिणधम्मे कि पमाएसि ?॥४७६॥
[यस्य बहिर्बहुजनो लब्धः न त्वयापि यो बहुं कालम्। लब्धे जीव ! तस्मिन्नपि जिनधर्मे किं प्रमाद्यसि ?॥४७६॥]