________________
भवभावना - ३७२
[मू] हिंति सलिलमट्टियमंतरनइसलिलमेव उवणेंति । वक्खारगिरीस वणम्मि भद्दसालम्मि तुवराई ॥ ३६६ ॥ [गृह्णन्ति सलिलमृत्तिकामन्तरनदीसलिलमेव उपनयन्ति। वक्षस्कारगिरिषु वने भद्रशाले तुवराणि॥३६६॥]
[मू| नंदणवणम्मि गोसीसचंदणं सुमणदाम सोमणसे । पंडगवणम्मि गंधा, तुवराईणि य विमीसंति॥ ३६७॥ [नन्दनवने गोशीर्षचन्दनं सुमनोदाम सौमनसे।
पाण्डकवने गन्धान् तुवरादीनि च विमिश्रयन्ति ॥ ३६७॥]
[मू] तो गंतुं सट्ठाणं, ठविउं सीहासणम्मि ते देवं । वरकुसुमदामचंदणचच्चियपउमप्पिहाणेहिं ॥ ३६८ ॥
[ततो गत्वा स्वस्थानं स्थापयित्वा सिंहासने तं देवम् । वरकुसुमदामचन्दनचर्चितपद्मपिधानैः॥३६८॥]
[मू] कलसेहि ण्हवंति सुरा, केई गायंति तत्थ परितुट्ठा। वायंति दुंदुहीओ, पढंति बंदि व्व पुण अन्ने॥३६९॥ [कलशैः स्नपयन्ति सुराः केचिद् गायन्ति तत्र परितुष्टाः। वादयन्ति दुन्दुभीन् पठन्ति बन्दिन इव पुनरन्ये॥३६९॥]
[मू] रयणकणयाइवरिसं, अन्ने कुव्वंति सीहनाया । इय महया हरिसेणं, अहिसित्तो तो समुट्ठेउं॥३७०॥ [रत्नकनकादिवर्षमन्ये कुर्वन्ति सिंहनादादि ।
इति महता हर्षेण अभिषिक्तः ततः समुत्थाय ॥ ३७०॥]
[मू] उद्धयमुयंगदुंदुहिरवेण सुरयणसहस्सपरिवारो। सोऽलंकारसभाए, गंतुं गिण्हइ अलंकारे ॥ ३७१॥
[उद्भूतमृदङ्गदुन्दुभिरवेण सुरजनसहस्रपरिवारः।
सोऽलङ्कारसभायां गत्वा गृह्णात्यलङ्कारान्॥३७१॥]
[मू] गंतुं ववसायसभाए वायए रयणपोत्थयं तत्तो। तवणिज्जमयक्खरऽमरकिच्चनयमग्गपायडणं॥३७२॥
[गत्वा व्यवसायसभायां वाचयति रत्नपुस्तकं ततः। तपनीयमयाक्षरममरकृत्यनयमार्गप्रकटनम्॥३७२॥]
१०५