________________
भवभावना-३६०
१०३
करदंष्ट्राँश्च स्वामिन्! कृताभिषेकाः सन्तः पूजयन्त यदेवं कृत्यानां प्रथममिदं कृत्यमित्यर्थः॥३५७॥ [मू] अह सो सयणिज्जाओ, उट्ठइ परिहेइ देवदूसजुयं। मंगलतूररवेहि, पढंततूरबंदिवंदेहि॥३५८॥
[अथ स शयनीयाद् उत्तिष्ठति परिदधाति देवष्ययुगम्।
मङ्गलतूररवैः पठत्सुरबन्दिवृन्दैः॥३५८॥] [मू] हरयम्मि समागच्छइ, करेइ जलमज्जणं तओ विसइ। अभिसेयसभाए अणुपयाहिणं पुव्वदारेणं॥३५९॥
[ह्रदं समागच्छति करोति जलमज्जनं ततो विशति।
अभिषेकसभायामनुप्रदक्षिणं पूर्वद्वारेण॥३५९॥] [अव] स्वच्छप्रधानसलिलसम्पूर्णहृदे समागच्छति। तत्र जलमज्जनं कृत्वा ततोऽभिषेकसभांप्रदक्षिणीकृत्य पूर्वद्वारेण विशति प्रविशतीत्यर्थः॥३५९॥ ___अभिषेकविधिक्रममेवाह[म] अह आभिओगियसुरा, साहाविय तह विउव्वियं चेव। मणिमयकलसाईयं, भिंगाराई य उवगरणं॥३६०॥
[अथ आभियोगिकसुराः स्वाभाविकं तथा विकुर्वितं चैव।
मणिमयकलशादिकं भृङ्गारादिकं च उपकरणम्॥३६०॥] [अव| नन्दण इति यावद्गाथाः सुगमाः। नवरं मागधवरदामप्रभासतीर्थतोयानि मृत्तिकां च समयक्षेत्रेऽर्धतृतीयद्वीपसमुद्रलक्षणे पञ्चसु भरतैरावतेषु गृह्णन्ति। पञ्चसु भरतेषु गङ्गासिन्धुसरितामादिशब्दात्पञ्चसु ऐरवतेषु रक्तारक्तवतीसरिताम्, तथापरासामपि सकलानां हैमवतैरण्यवतादिक्षेत्रवर्तिनीनां रोहिताशासुवर्णकूलादीनामुभयतटवर्तिनीं मृत्तिकां तोयानि गृह्णन्ति। गङ्गा-सिन्धु-रक्ता-रक्तवती सरित्मृत्तिकाजलग्रहणा[नन्तरं] च क्षुल्लकहिमवच्छिखरिपर्वतप्रमुखेषु कुलगिरीन्द्रेषु गत्वा सर्वाणि माल्यानि = कुसुमानि, सर्वान् गन्धद्रव्यविशेषान् गन्धान् = सिद्धार्थान् सर्षपाँस्तथा सर्वा औषधीः सुगन्धिमहलयाग्रन्थपर्णकादिरूपाः (?), तथा सर्वाण्यपि तुम्बराणि शरीरस्निग्धत्वापनोदाय द्रव्याणि गृह्णन्ति। इत्युक्तो गाथायाः सम्बन्धः। एवं १. सुगन्धिमहलवाझविपर्णकादिरूपा: इति हेम.मल.वृत्ति.मु.अ.।