________________
भवभावना-३२६
[मू] तेणेव पगइभद्दो, विणयपरो विगयमच्छरो सदओ। मणुयाउयं निबंधइ, जह धरणीधरो सुनंदो य॥३२५॥
[तेनैव प्रकृतिभद्रो विनयपरो विगतमत्सरः सदयः।
मनुजायुष्कं निबध्नाति यथा धरणीधरः सुनन्दश्च॥३२५॥] [अव] स्पष्टा। भावार्थः कथानकगम्यः तदिदम्
[धरणीधरसुनन्दकथा] श्रीपुरनगरे धरणीधरसुनन्दौ गृहपती प्रकृतिभद्रौ विनीतौ सरलौ दानिनौ दयापरौ। अन्यदा दयया साधुंभिल्लैरूपद्रूयमाणं मोचितवन्तौ क्रमेण मृत्वा वीरपुरे वज्रसिंहभूपस्य रुक्मिणीदेव्याः कुक्षौ तौ पुत्रावुत्पन्नौ। तस्याः सामन्तरुधिरपूर्णकुण्डस्नानदोहदः सञ्जातः। स अलक्तकरसेनापूरिष्ट। तत्कण्डस्नानोत्तीर्णा च देवी भारण्डेन मांसबुद्ध्यापहृता। अरण्ये नीता सा उटजे स्थिता सुतद्वयं प्रसूता। सिंहसिन्धुराभिधानौ तौ जातौ प्रौढौ हस्तिव्याघ्रादिभिः समं क्रीडतः। अन्यदा वशीकृतश्वेतगजेन्द्रारूढौ तौ पल्लीपतिभील्लाभिभूयमानं कञ्चित् सार्थवाहं विमोच्य पल्लीशं हत्वा स्वयं तत्र स्वामिनौ जातौ। जनन्या सहितौ राज्यं कुरुतः। अन्यदा तत्प्रसिद्धिं ज्ञात्वा वज्रसिंहो राजा श्वेतगजं दतप्रेषणेन याचते। तौ ते नार्पयतः। वज्रसिंहः सर्वबलेन तत्रागात्। द्वावपि तौ युद्धाय सम्मुखं चलतः। माता निवारयति। वत्सौ युवयोरसौ पिता। सर्वं स्वरूपं प्रोक्तम्। ततस्तौ सविशेषं युद्धायाभिमुखं गतौ राजानं जित्वा पादयोः पतितौ। जातः सर्वेषां हर्षः। राजा तयो राज्यं दत्त्वा प्राव्राजीत्। तावेकच्छत्रं राज्यं कृत्वा गुरुपार्श्वे प्रव्रज्य तपः कृत्वा सिद्धौ। इति धरणीधरसुनन्दाख्यानम्॥३२५॥ मनुष्यगतेरवचूरिः॥ ___ मनुष्येभ्यश्च समृद्ध्यायुष्कादिभिर्देवाः प्रधाना इति मनुष्यगतरुपरि देवगतिं बिभणिषुराह[मू] देवगई चिय वोच्छं, एत्तो भवणवइवंतरसुरेहि। जोइसिएहिं वेमाणिएहिं जुत्तं समासेण॥३२६॥
देवगतिं चैव वक्ष्ये इतो भवनपतिव्यन्तरसुरैः।
ज्योतिष्कैर्वैमानिकैर्युक्तां समासेन॥३२६॥] [अव] सुगमा॥३२६॥