________________
(वसन्ततिलका)
संतप्तलोहगतवारिवदत्र देहे, भुक्तान्नमेव विलयं सहसा प्रयाति । शान्त्यग्निदीप्तिकरवारणमेव नृणां, चाये मुनीन् सुखदतप्ततपः प्रभावान्॥3॥ ॐ ह्रीं अर्हं णमो तत्ततवाणं अघ्यं निर्वपामीति स्वाहा।
(इन्द्रवज्रा ) षष्ठाष्टपक्षादितपः प्रभावा ये, क्षीणदेहा बहुभिस्तपोभिः। स्तभ्नन्ति पाथोवरमन्त्रपुंसां तान् संभजे सच्चरितान् मुनीशान्। ऊँ ह्रीं अर्हं णमो महातवाणं अघ्यं निर्वपामीति स्वाहा।
(वसन्ततिलका)
क्रोधोद्धतैर्हरिगणै र्न हि विक्रियन्ते, ये योगिनो मतियुताः सुविशुद्धभाजः । क्ष्वेडाऽऽस्य रोगफणिबन्धनशान्तिहेतून्, भेजे यतीन् परमघोरतपोऽभियुक्तान्।।5।। ॐ ह्रीं अर्हं णमो घोरतवाणं अघ्यं निर्वपामीति स्वाहा।
(दोधक)
ये यतयो जठारर्त्ति विरागैर्नो विरताः स्वगुणैः शमयन्ति । काचसुकामलचिल्लकलूता योगिवरान् भज घोरगुणांश्च।।6।। ॐ ह्रीं अर्हं णमो घोरगुणाणं अघ्यं निर्वपामीति स्वाहा।
(उपजातिः)
येषां पराक्रान्तिरिह प्रसिद्धा विभेदने कर्मरिपोः स्वरूपे। पन्चास्यभीतिप्रतिभेदिनस्तान् वृत्तैर्यजे घोरपराक्रमांश्च ।।7। ऊँ ह्रीं अर्हं णमो घोरगुणपरक्कमाणं अघ्यं निर्वपामीति स्वाहा।
822