________________
दंष्ट्रादिपीडां कथमप्यपास्तद्वेषा विदघ्युम्रियतां स्वयं ये। विद्वेषणं वारयतो रिपूणां यायज्म्यहं तान् जलचन्दनाद्यैः।।15।। ॐ ह्रीं अहँ णमो आसीविसाणं अध्यं निर्वपामीति स्वाहा।
यदृष्टिमात्रेण नरा म्रियन्ते ये घ्नन्ति हाहाहलकं च नृणाम्। उच्छेदयन्तो भुवि शोकमेकं यायज्म्यहं तान् जलचन्दनाद्यैः।।16।। ऊँ ह्रीं अहँ णमो णमो दिट्ठिविसाणं अध्यं निर्वपामीति स्वाहा।
(आर्या) दृष्टिविषान्ता मुनयः संभिन्नश्रोतृतः समारभ्य।
पूर्णार्धेः परिचरिताः संघस्य श्रेयसे सन्तु।।17॥ ऊँ ह्रीं अहँ संभिन्नश्रोतृप्रभृतिद्दष्टिविषान्तर्द्धिप्राप्तयेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा।
अथ तृतीयवलय पूजा
(आर्या) विदधति वाचांस्तभ्यं कुधियां संसारभावनिर्विण्णाः। नानोग्रतपस्तप्तास्तेषामिहपूजनं विदधे।।1।।
ऊँ ह्रीं अहँ णमो उग्गतवाणं अध्यं निर्वपामीति स्वाहा।
(मालिनी) विदधति किरणा हि ध्वान्तनाशं परं वै। विविधमिह यतीनां सत्तपः प्राप्तभानाम्। विदधति खलु नृणां स्तम्भनं सद्वलस्य। शुचिरुचिजलमुख्यैः पूजये तान् मुनीन्द्रान्।।2।।
ॐ ह्रीं अहँ णमो दित्ततवाणं अध्यं निर्वपामीति स्वाहा।
821