________________
संवीक्ष्य चोल्काभ्रगणप्रयातं बुद्धाः प्रशस्ताः सुखकारिणश्च। प्रवादिविद्यामदभेदिनो ये, यायज्म्यहं तान् जलचन्दनाद्यैः॥3॥ ॐ ह्रीं अर्हं णमो पत्तेयबुद्धाणं अघ्यं निर्वपामीति स्वाहा।
हितादिभाषाकुशलैरुपायैर्ये ज्ञाततत्त्वाबुधबोध्यमानाः । चौरादिभीतिपरिपन्थिनश्च यायज्म्यहं तान् जलचन्दनाद्यैः॥4॥ ऊँ ह्रीं अर्हं णमो बोहियबुद्धाणं अघ्यं निर्वपामीति स्वाहा।
सुमर्त्यलोकस्थिभाववेतृनृजुप्रचेतः स्थितभावबुद्धया। शान्तिं जनानां विधिवद्विधातृन् यायज्म्यहं तान् जलचन्दनाद्यैः॥5॥ ऊँ ह्रीं अर्हं णमो उजुमदीणं अघ्यं निर्वपामीति स्वाहा।
कौटिल्यचेतोगतभववेतॄन्, मनुष्यलोके बहुशास्त्रतदातॄन्। चतुर्थबोधान् बहुभाक्तिकानां यायज्म्यहं तान् जलचन्दनाद्यैः॥6॥ ऊँ ह्रीं अर्हं णमो विउलमदीणं अघ्यं निर्वपामीति स्वाहा।
समस्तशास्त्रार्थविदो मनुष्या येषां प्रभावाद्दशपूर्ववेतॄन्। भवांगभोगेषु विरक्तचित्तान् यायज्म्यहं तान् जलचन्दनाद्यैः॥7॥ ॐ ह्रीं अर्हं णमो दसपुव्वीणं अघ्यं निर्वपामीति स्वाहा।
येषां प्रभावात् स्वपरार्थशास्त्रवेत्ता भवेन्ना सकलार्थवेदी। चतुर्दशापूर्वसुपूर्वविज्ञान् यायज्म्यहं तान् जलचन्दनाद्यैः॥8॥ ऊँ ह्रीं अर्हं णमो चउदसपुव्वीणं अघ्यं निर्वपामीति स्वाहा।
819