________________
(मदाक्रान्ता)
हिक्काश्वासग्रहणिगदजिद्भावरूपा यतीन्द्राः । सद्बीजं ये प्रमदमदहाः प्राप्यशास्त्रस्य नूनम् || जानन्तीह त्रिजगति गतं सर्वलोकार्थसार्थं । शास्त्रं भक्त्या यतिवरतरान् बीजबुद्धीन् यजामि ॥7॥ ॐ ह्रीं अर्हं णमो बीजबुद्धीणं अघ्यं निर्वपामीति स्वाहा।
(उपजाति)
पदं समाश्रित्य विदन्ति शास्त्रं विनशयन्तश्च परस्परोत्थम्। बैरं यके तान् प्रयजे यतीशान् सद्वादशांगीयपदानुसारीन्॥8॥ ॐ ह्रीं अर्हं णमो पादानुसारीणं अघ्यं निर्वपामीति स्वाहा।
(अनुष्टुप)
इति पूर्णार्घसंपन्ना जिनावधिमुखा जिनाः । पदानुसारिपर्य्यन्ता भवन्तु भवशान्तये।।9।। ऊँ ह्रीं णमोजिणाणप्रभृति पादानुसारिपर्यन्तर्द्धि प्राप्तेभ्यो गणधरेभ्यः पूर्णाघ्यं निर्वपामीति
स्वाहा।
अथ द्वितीयवलय पूजा (उपजातिः) संभिन्नशब्दश्रुतिपेशला ये गजाश्वमानुष्यमहांगिशब्दम्। पृथग् विन्तो नरकासहन्तृन् यायज्म्यहं तान् जलचन्दनाद्यैः।।1।। ऊँ ह्रीं अर्हं णमो संभिण्णसोदाराणं अघ्यं निर्वपामीति स्वाहा।
कवित्ववादित्वविधायिनो ये तत्सेवकानां निरपेक्षबुद्ध्या । गुरोर्गिरि प्राप्तमहानुभावा यायज्म्यहं तान् जलचन्दनाद्यैः॥2॥ ऊँ ह्रीं अर्हं णमो सयंबुद्धाणं अघ्यं निर्वपामीति स्वाहा।
818