________________
कुसुमचम्पकपंकजकुन्दकैः सहसुजातसुगन्धविमोहकैः।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।4। ऊँ ह्रीं झ्वीं श्रीं अहँ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः पुष्पं
निर्वपामीति स्वाहा।
सकललोकविमोदनकारकैश्चरुवरैः सुसुधाकृतिधारकैः।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।5।। ऊँ ह्रीं इवीं श्रीं अहँ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः नैवेद्यं
निर्वपामीति स्वाहा।
तरलतारसुकान्तिसुमण्डनैः सदनरत्नमयैरघखण्डनैः।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।6।। ऊँ ह्रीं झ्वीं श्रीं अहँ असि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः दीपं निर्वपामीति
स्वाहा।
अनुगुरुधूपगणेन सुगन्धिना भ्रमरकोटिसमिन्द्रियबन्धिना।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।7। ऊँ ह्रीं झ्वीं श्रीं अहँ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः धूपं निर्वपामीति
स्वाहा।
सुखदपक्वसुशोभनसत्फलैः क्रमुकनिम्बुकमोचसुलांगलैः। ___ गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।8।। ऊँ ह्रीं इवीं श्रीं अहँ असि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः फलं
निर्वपामीति स्वाहा।
814