________________
(उपजातिः) उग्रं तपोदीप्ततपस्तपन्तु तप्तं तपो घोरतपो महच्च। ये सप्तधा घोरपराक्रमाश्च ब्रह्माऽपि ते सन्तु विदे त्रिगुप्ताः।।9।।
(वसन्ततिलका) नानातपोऽतिशयलब्धमहर्द्धिमुख्याः सूर्योदयो मुनिवरा जगतां प्रयान्तः। कुर्वन्तु ऋद्धिनिचयं शुभचन्द्रकस्य संघस्य दुष्टदुरितानि हरन्तु सन्तः।।10।।
इति गणधरवलयस्तवनं समाप्तम्
(द्रुतविलम्बितम्) विमलशीतलसज्जलधारया, सविधुबन्धुकेशरसारया। ___ गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।1। ऊँ ह्रीं इवीं श्रीं अहँ अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झौं झौं नमः जलं
निर्वपामीति स्वाहा।
मसृणकुङ्कुमचन्दनसुद्रवैः सुरभितागुरुमृगमदसवैः।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।2।। ऊँ ह्रीं झ्वीं श्रीं अहँ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः गन्धं
निर्वपामीति स्वाहा।
विपुलनिर्मलतन्दुलसंजयैः कृतसुमौक्तिककल्पतरूच्चयैः।
गणधरान् गुणधारणभूषणान् यज इमान् वसुभेदसुऋद्धिगान्।।3।। ऊँ ह्रीं झ्वीं श्रीं अर्ह अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः अक्षतान्
निर्वपामीति स्वाहा।
6813)