________________
स भवति जिनदेवः पञ्चकल्याणनाथः, कलिल-मल-सुहर्त्ता, विश्व-विघ्नौघ-हन्ता।। शिवपद-सुखहेतुः नाभि राजस्य सूनुः, भव-जलनिधि-पोतो विश्वमोक्षाय नाथः।।
दीर्घायुरस्तु शुभमस्तु, सुकीर्तिरस्तु सद्बुद्धिरस्तु धनधान्य-समृद्धि रस्तु। आरोग्यमस्तु विजयोऽस्तु महोऽस्तु पुत्र- पौत्राद्भवोऽस्तु तव सिद्धपति-प्रसादात्।। इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्)
शान्ति - पाठ
शान्तिजिनं शशि-निर्मल-वक्त्रं शील-गुण-व्रत-संयम-पात्रम्। अष्टशतार्चित-लक्षण-गात्रं नौमि जिनोत्तममम्बुज - नेत्रम्।। पञ्चमभीप्सित-चक्रधराणां पूजितमिन्द्र-नरेन्द्र-गणैश्च। शान्तिकरं गण-शान्तिमभीप्सुः षोडस तीर्थकरं प्रणमामि ।। दिव्य-तरुः सुर-पुष्प सुवृष्टिदुन्दुभिरासन-योजन घोषौ। आतपवारण-चामर-युग्मे यस्य विभाति च मण्डलतेजः॥ तं जगदर्चित-शन्ति-जिनेन्द्रं शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्तिं मह्यमरं पठते परमां च।। येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नैः। शक्रादिभिः सुरगणैः स्तुत-पाद-पद्माः।। ते मे जिनाः प्रवर-वंश-जगतप्रदीपा - स्तीर्थंकराः सततशान्तिकरा भवन्तुः । संपूजकानां प्रतिपालकानां यतीन्द्र-सामान्य-तपोधनानाम्। देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवाञ्जिनेन्द्रः ।
क्षेमं सर्व-प्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः। काले काले च सम्यग्वर्षतु मधवा व्याधवी यान्तु नाशम्। दुर्भिक्षं चौर-मारी क्षणमपि जगतां मास्म भूज्जीवलोके। जैनेन्दं धर्मचक्रं प्रभवतु सततं सर्व-सौख्य-प्रदायि।।
54