________________
अथ समुदाय पूजा स चन्द्रमा भव्यकुमुद्वतीनां, विपन्नदोषाभ्र कलंकलेपः। व्याकोशवाङ्न्यायमयूखमालः, पूयात् पवित्रो भगवान् मनो मे।।
सबिन्द जातोदरजं वरं परं, सहोममर्ह लपहा पहश्च। क्ष बीजपूर्वं स्वरटान्तवेष्टितं स्वरावृतं द्वादशपद्मपत्रतः।।
शान्तं द्वादश सत्कलान्वितपदं पीयूष पञ्चाक्षरं, क्ष्वी इवी क्षिं सपर च बिन्दसहितं साहोममग्रे लिखेत्। बाह्ये सान्तसुसंघटं परिवृतं मृत्युंजयाख्यैः पदैस्तद्बादै जलसम्पुटं क्षितिभृतं मृत्युंजयेनार्चये।।
इति पठित्या यन्त्रोपरि पुष्पाञ्जलिं क्षिपेत्। समस्तचक्रान्वित दिव्यचक्रं, रक्षदिमृत्युञ्जयनामधेयम्। शान्तिप्रदं मृत्युविनाशहेतु, भजामि मृत्युञ्जययन्त्रमन्त्र।।
अकारबीजाक्षरमातृकादि-प्रसिद्धसन्मण्डलबीजमन्त्र। न्यसामि मन्त्रैः स्वपदप्रशस्तं, प्रसिद्धमृत्युञ्जययन्त्रमर्चे।।
सर्वोपमृत्योश्च निवारहेतुं, सर्वप्रदाभीष्टफलप्रपूतम्। सर्वामरेन्द्र क्षितिदिव्यचक्रं, नमामि मृत्युञ्जय नामधेयम्। चंचत्काञ्चन भूतप्रेतपिशाचराक्षसगणप्रत्यूह विध्वंसकम्।
शान्तं सर्वरुजापहं सुखकरं मृत्युञ्जयं संयजे।।
। इति पठित्वा नमस्कारं कुर्यात्।
396