________________
केन्द्रत्रिकोणे जनसौख्यकारी, मृगेन्द्रसत्त्वोहितलोकपूज्यः।
बलिप्रदानेन सुपुष्टिकर्ता, तं सोमपुत्रं परिपूजयामि।।4।। ॐ आं क्रीं ह्रीं बुध महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा।
यः स्वर्गलोके सुरराजमन्त्री पयः प्रपूरादिघृतैः सुतुष्टः। वियद्विहारी बलिभक्षकः सन् बृहस्पतिं तं परिपूजयामि।।5।। ऊँ आं क्रों ह्रीं गुरु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा।
यः सव्यपाणै शुचिदण्डधारी सुवामहस्ते च कमण्डलुं श्रित्।
सुधौतवस्त्रं कविराजमुख्यं, तं शुक्रदेवं परिपूजयामि।।6।। ॐ आं क्रों ह्रीं शुक्र महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा।
छायासुतः सूर्यखचारिपुत्रो, यः कृष्णवर्णो रजनीशशत्रुः।
अष्टारिगः सज्जनसौख्यकारी शनीश्वरं तं परिपूजयामि।।7।। ऊँ आं क्रों ह्रीं शनि महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा।
जिनेन बिम्बेन दिने-दिने च, षष्ठे च मासे शशिनो विमानम्। प्रच्छादयन्तं परितर्पयामि, राहुं स्वभावात्परितुष्यमाणम्।।8।। ॐ आं क्रों ह्रीं राहु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा।
कृष्णाध्वजो कृष्णसुवर्णधारी, छायाग्रहो पुण्यवियद्विहारी। एकादशस्थः सभवन्प्रपूज्यः, केतुग्रहं तं परिपूजयामि।।9।। ऊँ आं क्रों ह्रीं केतु महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा।
अथ चतुरस्रवलये मृत्युञ्जयस्य द्वादश बीजाक्षराऽर्चनम्
395