________________
बिभर्ति या पुस्तकमिष्टदानं सव्यापसव्येन करद्वयेन।
भद्रासनामाश्रितवर्धमानां सिद्धायिकां सिद्धिकरीं यजे ताम् ॥24॥
ॐ आं क्रों ह्रीं महावीर जिनस्य शासनयक्षि सिद्धायिनिदेव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा।
अथ तृतीय वलये मध्ये पंचदशतिथिदेवाः - नवग्रहाऽर्चना
आवनादि पुरःसर तिथिदेवताः, नवग्रहदेवता प्रत्येक पूजा प्रतिज्ञापनाय तृतीयवलये पुष्पाक्षतान् क्षिपेत्।
स्थापना
नन्दां च भद्रां च जयां च रिक्तां, पूर्णां च भूयो भुवि वर्तयन्ति। ये ताननेकान्त सुपक्षपक्षान्नयक्षेण यक्ष प्रमुखान्प्रयक्ष्ये।।
ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र अवतर अवतर संवौषट् आह्वाननम्।
ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्। ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणम्।
अर्थ प्रत्येकाय
यक्षं यजेऽहं सगतं सुपक्षं, पक्षे च पक्षे प्रतिपद्दिनेशम्। कोदण्डबाणा भयदानपाशं, पद्मांकंहस्तं धवलोज्ज्वलांगम्॥1॥ ॐ आं क्रों ह्रीं प्रतिपदयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा।
यजामि वैश्वानरमर्कभासं, त्रिशूलदानाभयमक्षमालं। कपालमज्वं दधतं करीन्द्र-वाहं द्वितीया दिवसाधिनाथम्॥2॥ ॐ आं क्रों ह्रीं वैश्वानराय इदं अध्यं गृहाण-गृहाण स्वाहा।
391