________________
सन्मैथिलेश विजयाह्व गृहेऽवतीर्णा, कल्याणपञ्चकसमर्पितपादपद्मम्। धर्माम्बुवाह परिपोषित भव्यसस्यं, नित्यं नमिं जिनवरं महसार्चयामि।।21॥
ॐ ह्रीं नमिनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा।
यः खेट खड्गौ दृढचापबाणौ, सृण्यबुजे चक्रवरौ दधानः। हस्ताष्टकेनोग्र चतुर्मुख तं नमीशयक्षं भृकुटिं यजामि।।21॥ ॐ आं क्रों ह्रीं भृकुटीयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा।
इष्ट्यास्तु तुष्टा धृतयष्टिखेट-सव्यद्विहस्तान्यकरद्वयेन। दिव्याक्षमालामसिमादधानां, चामुण्डिका श्रीनमिमानमन्तीम्।।21॥ ॐ आं क्रों ह्रीं चामुण्डिका देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा।
द्वारावतीपतिसमुद्रजयेशमान्यं, श्रीयादवेशबलकेशव पूजिताघ्रिम्। शङ्खाङ्कमम्बुधरमेचकदेहमर्चे, सद्ब्रह्मचारिमणि नेमिजिनं जलाद्यैः।।22।।
ऊँ ह्रीं नेमिनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा।
घनं कुठारं च बिभर्ति दण्डं सव्यैः फलैर्वज्रवरौ च योऽन्यैः। हस्तैस्तमाराधितनेमिनाथं गोमेधयक्षं प्रजयामिदक्षम्।।2।। ऊँ आं क्रों ह्रीं गोमेधयक्षाम इदं अध्यं गृहाण-गृहाण स्वाहा।
धत्ते वामकटौ प्रियंकरसुतं वामे करे मंजरीमाम्रस्यान्यकरे शुभंकरतुजो हस्तं प्रशस्ते हरौ।
अस्ते भर्तृचरे महामविटपिच्छायं श्रिताभीष्टदा, याऽसौ तां नुतनेमिनाथ पदयो-नम्रामिहाम्रां यजे॥22॥
389