________________
शुभपार्श्व जिनेश्वरपादभुवां रजसां श्रयतां कमलाततयः। कति नात्र भवन्ति न यज्ञभुवि, नयितुं महयामि महध्वनिभिः।।7।।
ऊँ ह्रीं सुपार्श्वनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा।
यमोग्रदण्डोपमचण्डदण्डं सव्येन चासव्यकरण शूलम्। विभ्राणमर्चामि सुपार्श्वभक्तं मातङ्गयक्षं कुटिलाननोग्रम्।।7।। ॐ आं क्रीं ह्रीं मातंगयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा।
आरभ्य वामोपरि हस्ततो या घटां फलं शूलमभीष्टदानम्। दधाति काली कलितप्रसादा सपर्यया सास्तु सुपार्श्वयक्षी।।7।। ॐ आं क्रों ह्रीं कालिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा।
मनसा परिचिन्त्य विधुः स्वरसात् ममकान्तिहतिर्जिनदेहघृणेः। इतिपादभुवं श्रितवानिव तं, जिनचन्द्रपदाम्बुजमाश्रयत।।8।।
ॐ ह्रीं चन्द्रप्रभ जिनेन्द्राय अयं निर्वपामीति स्वाहा।
सव्येन धत्ते परशुं फलं य-स्तथाक्षमालां च वरं परेण। करद्वयेन प्रंयजे त्रिनेत्रं श्यामं तमिन्दु प्रभभक्तिभारम्।।8। ॐ आं क्रों ह्रीं श्याम यक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा।
चक्रं चापमहीश पाशफलके सव्यैश्चतुर्भिः करै-रन्यैः शूलमिषु झषं ज्वलदसिं धत्तेऽत्र या
दुर्जया। तामिन्दुप्रभ देवसेवनपरा-मिष्टार्थसार्थप्रदाम्,ज्वालामालकरालमौलिकलितां देवीं यजे
ज्वालिनीम्।8।
382