________________
अज्ञानादि-तमोविनाशन करैः, कर्पूरदीप्तैवरैः ।
कार्पासस्य विवर्तिकाग्रहि वहितैः, दीपैः प्रभाभासुरैः । विद्युत्कान्ति विशेष संशय करैः, कल्याणसम्पादकैः। कुर्यादार्तिहरार्तिकां जिन! विभो! पादाग्रतो युक्तितः।। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय दीपम् निर्वपामीति स्वाहा।
श्रीकृष्णागरु देवदारु जनितैः, धूप ध्वजोद्वर्तिभिः। आकाशं प्रति व्याप्तमधूपटलैः, आह्वानितैः षट्पदैः।। यः शुद्धात्मविवृद्धकर्मपटलोच्छेदेन जातो जिनः।
तस्यैव क्रमपद्मयुग्मपुरतः, सन्धूपयामो वयम्।
ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय धूपम् निर्वपामीति स्वाहा।
नारिङ्गाम-कपित्थ-पूग-कदली- द्राक्षादि-जातैः फलैः। चक्षुश्चित्तहरैः प्रमोदजनकैः पापापहैर्देहिनाम्।।
चर्णाद्यैः मधुरैः सुरंशतरुजैः, खर्जूरपिण्डैस्तथा। देवाधीश-जिनेश-पाद-युगलं, सम्पूजयामि क्रमात्।
ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय फलम् निर्वपामीति स्वाहा।
नीरैश्चन्दनः तन्दुलैः सुसघनैः पुष्पैः प्रमोदास्पदैः। नैवेद्यैः नवरत्नदीपनिकरैः, धूमैस्तथा धूपजैः ॥
अघ्यं चारुफलैश्च मुक्तिफलदं, कृत्वा जिनाङ्घ्रिद्वये।
भक्त्या श्रीमुनि-सोमसेनगणिना, मोक्षो मया प्रार्थितः।।
ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय अघ्यं निर्वपामीति स्वाहा।
38