________________
श्रीखण्डेन सुगन्धिना भवभृतां, सन्ताप-विच्छेदिना।। काश्मीरप्रभवैश्च कुङ्कुमरसे:, घुष्टेन नीरेण वै। श्रीमाहेन्द्र-नरेन्द्र-सेवितपदं, सर्वज्ञदेवं यजे ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय चन्दनम् निर्वपामीति स्वाहा।
श्रीशाल्युद्भवतन्दुलैः सुविलसद्-गन्धैर्जलल्लोभकैः । श्रीदेवाब्धि - सरूप- हार-धवलैः नेत्रैर्मनोहारिभिः ।। सौधौतै-रतिशक्ति-जातिमणिभिः, पुण्यस्य भागरिव।
चन्द्रादित्य-सम-प्रभं प्रभुमहो, सञ्चर्चयामो वयम।।
ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय अक्षतं निर्वपामीति स्वाहा।
मन्दाराब्ज-सुवर्णजाति-कुसुमैः, सेन्द्रीयवृक्षोद्भवैः।
येषां गन्धविलुब्ध-मत्त-मधुपैः, प्राप्त प्रमोदास्पदम्।।
मालाभिः प्रविराजिभिः जिन ! विभोर्देवाधिदेवस्य ते। सञ्चर्चे चरणारविन्द युगलं, मोक्षार्थिनां मुक्तिदम्।।
ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय पुष्पम् निर्वपामीति स्वाहा।
शाल्यन्नं घृतपूर्ण सर्पिसहितं, चक्षुर्मनोरञ्जकम्। सुस्वादु त्वरितोद्भवं मृदुतरं, क्षीराज्यपक्वं वरम्।। क्षुद्रोगादिहरं सुबुद्धिजनकं, स्वर्गापवर्गप्रदम्। नैवेद्यं जिन-पाद-पद्मपुरतः, संस्थापयेऽहं मुदा ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय नैवेद्यम् निर्वपामीति स्वाहा।
37