________________
करोम्यर्चनं भक्त्या, दशांग शुद्ध धूपेन | चन्द्रप्रभ जिनेन्द्रस्य, अष्टकर्म निवारणे।। ॐ ह्रीं श्री चन्द्रप्रभ् जिनेन्द्राय अष्टकर्म विध्वंसनाय धूपं निर्वपामीति स्वाहा॥7॥
नारिकेलः लवंगादि, पिस्ता आम्र खर्जूरभिः । चन्द्रनाथं पूज्यामि, मोक्षफल सुसाधने।। ॐ ह्रीं श्री चन्द्रप्रभु जिनेन्द्राय मोक्षफलप्राप्ताय फलं निर्वपामीति स्वाहा॥8॥
जलागन्धाक्षतैः पुष्पैः दीपधूप फलादिभिः । चन्द्रनाथ करोम्यर्चां, अनघ्यपदहेतवे।। ऊँ ह्रीं श्री चन्द्रप्रभ् जिनेन्द्राय अनघ्यपदप्राप्तये अघ्य निर्वपामीति स्वाहा।।9।
जयमाला
चन्द्रप्रभं चन्द्रमरीचिगौरं चन्द्रं द्वितीय जगतीव कान्तम् । वन्देऽभिवन्द्यं महातामृषीन्द्रं जिनं जितस्वान्तकषायबन्धनम्॥1॥ यस्याङ्ग लक्ष्मी परिवेषभिन्नं तमस्तमोरेरिव रश्मिभिन्नम्। ननाश बाह्यं बहुमानसं च, ध्यानप्रदीपातिशयेनभिन्नम्॥2॥ स्वपक्षसौस्थित्यमदावलिप्ता, वाक् सिंहनादैर्विमदाबभूवुः । प्रवादिनो यस्य मदार्द्रगण्डा, गजा यथा केशरिणो निनादैः ॥ 3 ॥
यः सर्वलोके परमेष्ठितायाः, पदं बभूवाद्भुतकर्मतेजाः। अनन्तधामाक्षर विश्वचक्षुः समस्तदुःखक्षयशासनश्च॥4॥ स चन्द्रमा भव्यकुमद्वतीनां, विपन्नदोषाभ्रकलङ्कलेपः। व्याकोशवाङ्न्यायमयूखमालः, पूयात् पवित्रो भगवान् मनो मे॥5॥ परमचन्द्रनाथसच्चरणपङ्कजद्वयं । स्मरतघस्मरस्मय, स्मरशरासनापहं ।। ॐ ह्रीं चन्द्रप्रभु जिनेन्द्राय जयमाला पूर्णायं निर्वपामीति स्वाहा।
376