________________
श्रुतस्कन्धपूजा विधान (आचार्य श्री श्रुतसागर जी विरचित)
सदङ्गपूर्वैः सकलैः प्रपूर्णं, प्रकीर्णकैः सप्तविधैश्च भङ्गः।
पूज्यं श्रुतस्कन्धमिहार्चनाय, संस्थापये ज्ञानसमस्तबीज।। (एतत् पठित्वा श्रुतस्कन्धस्थापनार्थं स्वस्तिकोपरि पुष्पाणि क्षिपेत्)
नरामरेन्द्र संसेव्यं श्री जिनेन्द्रमुखोद्-गत। स्वर्गादिदं गुणाधानं संस्थापयामि सच्छ्रुत।।
ऊँ ह्रीं श्रुतस्कन्ध! अत्रावतर अवतर संवौषट् आह्वान।
ॐ ह्रीं श्रुतस्कन्ध! अत्र तिष्ठौ तिष्ठौ ठः ठः स्थापनम्। ॐ ह्रीं श्रुतस्कन्ध! अत्र मम सन्निहितौ भव भव वषट् सन्निधापन।
अष्टक छन्द क्षीरोदगङ्गादिसुनीरजातैः धाराव्रजैः स्वच्छतरैः सुगन्धैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।1। ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय जलं निर्वपामीति स्वाहा।
श्री खण्डकर्पूरसुकुङ्कुमादि द्रव्योद्भवेश्चारु विलेपनाद्यैः।
यजे श्रुतस्कन्धमहं त्रिशुदध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।2। ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय चंदनं निर्वपामीति स्वाहा।
श्रीशालिपुजैर्बरमौक्तिकाभैः दिव्यैरखण्डैर्बहुपुण्यकारैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।3। ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अक्षतं निर्वपामीति स्वाहा।