________________
३२ ]
महावीर वाणी
आहारम् इच्छेत् मितम् एषणीयम् सहायम् इच्छेत् निपुणार्थबुद्धिम् । निकेतम् इच्छेत् विवेकयोग्यम् समाधिकामः श्रमणः तपस्वी ॥२०८॥
न वा लभेत निपुणं सहाय गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत् कामेषु असज्जमानः ॥ २०९॥
न कर्मणा कर्म क्षपयन्ति बालाः अकर्मणा कर्म क्षपयन्ति घोराः । मेधाविनः लोभ- भयात् व्यतीताः संतोषिणः न प्रकरन्ति पापम् ॥ २२० ॥
: १८ :
आत्म-सूत्रम्
आत्मा नदी वैतरणी आत्मा मम कूटशाल्मलिः । आत्मा कामदुधा धेनुः आत्मा मे नन्दनं वनम् ॥ २१२ ॥
आमा कर्ता विकर्ता च दुःखानां च सुखानां च । आत्मा मित्रम् अमित्रं च दुष्प्रस्थितः सुप्रस्थितः ॥२२२॥ आत्मा चैव दमितन्यः आत्मा स दुर्दमः ।