________________
મહાપ્રાભાવિક નવસ્મરણ.
આ સેાળ વિદ્યાદેવીના પ્રાચીન તાડપત્રીય ચિત્રા માટે જુએ ‘જૈન ચિત્રકલ્પદ્રુમ’ ગ્રન્થમાંના ચિત્રો ન. ૧૬ થી ૩૧ સુધી.
સેાળ વિદ્યાદેવીઓનાં સ્વરૂપે સંપૂર્ણ.
૨૩૪
સેાળ વિદ્યાદેવીએની મુદ્રાએઃ—
वामहस्तेन मुष्टिं बध्वा कनिष्टिकां प्रसार्य शेषांगुली कराङ्गुष्ठेन पीडयेदिति शङ्खमुद्रा ॥१॥ परस्पराभिमुखहस्ताम्यां वेणीबन्धं विधाय मध्यमे प्रसार्य संयोज्य च शेषाङ्गुलीभिर्मुष्टी बन्धयेदिति शक्तिमुद्रा ॥२॥ हस्तद्वयेनाङ्गुष्ठतर्जनीभ्यां वलके विधाय परस्परान्तःप्रवेशनेन शृङ्खलामुद्रा ||३|| वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकाङ्गुष्ठाभ्यां मणिबन्धं संवेष्टय शेषाङ्गुलीनां विस्फारितप्रसारणेन वज्रमुद्रा ||४|| वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य करशाखा विरलिकृत्य प्रसारयेदिति चक्रमुद्रा ॥२५॥ पद्माका करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारौ विन्यसेदिति पद्ममुद्रा ||६|| वामहस्तमुष्टैरुपरि दक्षिमुष्टिं कृत्वा गात्रेण सह किञ्चिदुन्नामयेदिति गदामुद्रा ||७|| अधोमुखवामहस्ताङ्गुलीर्घण्टाकाराः प्रसार्य दक्षिणेन मुष्टिं बध्वा तर्जनीमूर्ध्वा कृत्वा वामहस्ततले नियोज्य घण्टावच्चानेन घण्टामुद्रा ॥८॥ उन्नतपृष्ठहस्ताभ्यां संपुटं कृत्वा कनिष्ठिके निष्कास्य योज दिति कमण्डलुमुद्रा ||९|| पताकावत् हस्तं प्रसार्य अङ्गुष्ठयोजनेन परशुमुद्रा ||१०|| यद्वा पताकाकारं दक्षिणकरं संहताङ्गुलि कृत्वा तर्जन्यङ्गुष्ठाक्रमणेन परशुमुद्रा द्वितीया ॥ ११ ॥ ऊर्ध्वदण्डौ करौ कृत्वा पद्मवत् करशाखाः प्रसारयेदिति वृक्षमुद्रा ||१२|| दक्षिणहस्तं संहतांगुलिमुन्नमय्य सर्पफणावत् किञ्चिदाकुञ्चयेदिति सर्पमुद्रा ॥ १३३॥| दक्षिणकरेण मुष्टिं बद्ध्वा तर्जनीमध्य मे प्रसारयेदिति खगमुद्रा ||१४|| हस्ताभ्यां संपुटं विधायांगुलीः पद्मवद्विकास्य मध्यमे परस्पर संयोज्य तन्मूललग्नांगुष्ठौ कारयेदिति ज्वलन मुद्रा ॥१५॥ बद्धमुष्टेर्दक्षिणकरस्य मध्यमांगुष्ठतर्जन्योस्तन्मूलाक्रमेण प्रसारयेदिति दण्डमुद्रा ॥१६॥
- एताः षोडशविद्यादेवीनां मुद्राः ॥ - निर्वाणकलिका पत्र. ३२ ઉપર પ્રમાણે સેાળ વિદ્યાદેવીની સેાળ મુદ્રાએ અનુક્રમે જાણવી. સેાળ વિદ્યાદેવીના મન્ત્રો આ પ્રમાણેઃ—
ॐ यां रोहिण्यै अं नमः । ॐ रां प्रज्ञप्त्यै आं नमः । ॐ ॐ वां वज्राङ्कश्यै इं नमः । ॐ शां अप्रतिचक्रायै उं नमः । ॐ सां काल्यै क्रं नमः । ॐ हां महाकाल्यै नमः । ॐ गान्धायै लं नमः । ॐ लूं सर्वास्त्रमहाज्वालायै पं नमः । ॐ
लां वज्रशृङ्खलायै इं नमः । षां पुरुषदत्तायै ऊं नमः । यूं गौर्यै लं नमः । ॐ रूं वं मानव्यै ऐं नमः । ॐ