________________
२६
कल्पिताः कचकृतार्हणायुजोः कर्णयोः कपिश-केसराङ्कयोः । कुड्मलेन सुकुमारकाययोः केलयः कनककर्णपूरयोः ॥७॥
शङ्करेण शिरसा सरिद्वरा धारितेति विजिगीषयेव सः । शुभ्र देहललितोऽञ्जनप्रभैः कुन्तलैर्नु यमुनामधारयत् ॥८॥
नीरजैर्न रविणा न नेन्दुना दिव्यमाननममुष्य सुन्दरम् । अभ्युपैति विमलं सरूपतां तन्मुखेन सदृशं हि तन्मुखम् ॥९॥
कन्धरा सुभगमस्तकन्धरा हारभारमतिसारमादरात् । आदधाति गुणधारणेन हि सार्थकाः खलु भवन्ति शक्तयः ॥ १० ॥
अंसदेशमवलोक्य दूरत एतदीयतनुशक्तिभाविताः । एतनै रविनमस्कृतौ प्रगे
सैनिका अगणिता स्मरन्ति तम् ॥ ११॥
अब्ज - मार्दव - विलासिपाणिमान् मांसलोपचितिमत्प्रगण्डवान् । दादर्पित-कर- प्रकोष्ठभागातनोति मधुरौजसोर्युतिम् ॥१२॥
श्रीमाणिभद्रमहाकाव्यम् २