________________
सर्गः २
( रथोद्धतावृत्तम्)
रूपवानतिधनः कृपापरो दक्षिणो गुणरतिर्मतिस्थिरः । भोगभाजनमलं सदाऽऽस्तिको रत्नदीपसतुलोऽस्ति गेहवान् ॥१॥ स्निग्धदृङ् नतनिमेषकोमलो भूलता-विमल-कृष्णरोमवान् । कर्णगामि-नयन-विलोकते यद् भवेत्तदतिशायियौवनम् ॥२॥ वक्त्रकान्तिरिव सञ्चितोज्ज्वला मध्यनेत्रमनुभाति नासिका । श्वास-वेग-मृदु-कम्पनाऽञ्चिता दीपवतिरिव वर्तते नवा ॥३॥ गौरयोरिह कपोलयोश्शुभा पद्मरागरुचिरीषदस्ति सा । कामिनी-जन-मनो-विजित्वरी कामराज-वदन-स्मितिः किमु ॥४।। ओष्ठयोः कमलपत्रकान्तयोः कोणदेश-गत-सूक्ष्म-रेखयोः । शब्दवाहिकतया सुचारिणोदन्तवृष्णिभिरुदारचित्रणा ॥५॥ श्मश्रुराजिभिरुपावृतं मुखं दर्शनीयसुषमामनुत्तराम् । धारयत्यणुविराजना अपि कुर्वते हि महतां परां द्युतिम् ॥६॥
श्रीमाणिभद्रमहाकाव्यम् २