________________
विराजते विश्वविभूतिविश्रुता वसुन्धराया अवतंसिता वरा । अवन्ध्यविद्या विरताऽरतिव्यथा वियद्वितानाऽऽवसथावलिः पुरि ॥६१।।
न रावणोद्गारगरानुषक्तया न वा वनेवासविलक्षरामया । समुन्नतद्वारिकया विकृष्णया पुरत्रयी पेशलया पराकृता ॥६२।।
उद्यानेष्विव पाटलः सुरभिणा सौन्दर्यतश्चासते तारायामिव भार्गवः सितरुचिविद्योतते तेजसा । राकायामिव चन्द्रमा निवसति स्वच्छप्रभामेदुर एतस्यामधितिष्ठति प्रगुणितो माणिक्यसिंहः कृती ॥६३।।
श्रीमाणिभद्रमहाकाव्यम् १