SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ समुद्धतस्यन्दनवेगवेपिता महापथा राजगजानुवेल्लिताः । मनुष्यसङ्घातविमर्दिता अपि न यान्ति भङ्गं सुजनव्रतैरिव ॥५५॥ सतीजनैरिच्छितपूर्तये दिवा निशासु जातास्वभिसारिकाजनैः । समं समालम्बित एष मौनवान् पथस्य तत् साक्षिकताऽस्ति काऽद्भुता ॥५६॥ समस्य योग्यस्थलमादिशन्नयं स्वकर्मनिर्देशविधायकः खलु । अनेन जीवानिहगान्न काऽपि दिग् न कोऽपि भागो न च नास्ति दर्शितः ॥५७।। नियोगबद्धैर्नरपैर्भृशं भृतं शुभाशिषैविज्ञवरश्च सत्कृतम् । महाजनैतिधनैस्समादृतं भुवामधीशस्य बृहत् सभागृहम् ॥५८॥ नयोपदेशस्थ तत्त्वचिन्तया धनार्जनैर्व्यापृतिचिन्तनैस्तथा । विलासिनीनृत्यस्तैश्च वादनैः करोति धर्मार्थमनोऽनुरक्षणम् ॥५९।। धियामधिव्याप्तिभिराजिजित्वरैश्चमप्रधानैनिभृतार्थमन्त्रणा । सभागृहस्यैव विशेषकक्षके नृपेण काले क्रियतेऽभयप्रदा ॥६०॥ श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy