________________
११४
स्वस्तिकालेखनैरक्षतैरक्षतैरक्षता दक्षताऽदर्शि तेनार्हणे । शुभ्रपुत्रैश्च पुण्यानि देवाश्रयेऽ स्थापयद् भक्तिभावाँश्च सर्वानपि ॥७॥
मुक्तिकाङ्क्षी फलान्यर्हतामर्पयन् निश्चलं सत्फलत्वं जगामात्मनः । स्वादुभिः सुष्ठुभिः निर्मलैस्तैः फलैः भद्रनिर्घोषणा स्वस्य चैत्येऽकरोत् ॥८॥
द्रव्यमध्यर्घमायुक्तवानद्भुतं शुद्धनैवेद्यपूजाविधाने धनी । देवतासम्मुखे स्थापिता मिष्टयो लेभुरेवामृतादुच्चकक्षस्थितिम् ॥९॥
नित्यमेवं वितत्याष्टपूजा विभो - रुद्यतः श्रेष्ठिमाणिक्यसिंहः कृती । अष्टकर्मक्षयैरष्टसौख्ये शिवे यातुमष्टाभिमानापहारोत्तमः ॥१०॥
व्यापृतिं पालिकायां नगर्यां मरौ साधिकां विन्दते रैवतां रैवतः । विष्णुसीमन्तिनीप्रेमलीलावशोऽ वन्तिकातोऽपि दूरं वसन्नार्हतः ॥११॥
आनुरूप्यं शरवेलया निर्जला वायवो वारिदा तद्भुवा यन्त्यरम् । साहचर्येण दीर्घेण नो किं भवेद् उत्तमानामपि भ्रंश आत्मस्थितेः ॥ १२ ॥
श्रीमाणिभद्रमहाकाव्यम् ७