________________
जडतया यदि मूर्तिरयि ! प्रभोन मनसः परितोषविधायिनी । कथय वेणुबिलादथ वीणया कथमदीपि मदी पिकपञ्चमः ॥१३॥
सुभगबिम्बनिभालनरागिणो जिनगृहोचितपूजनकारिणः । परमया कृपया भगवानयं वितनुतेऽतनु ते हृदये शमम् ॥१४॥
हृदयहारिणि पापनिवारिणि चरितचारिणि संशयवारिणि । इति वदत्यवदातगुणे गुरौ हृततमास्ततमास्थिषतादरम् ॥१५॥
परमुपोढविचारमुदाहरन् किल भवेयमपाहृतकण्टकः । इति विचिन्त्य विनम्रगिराऽमुना स जगदे जगदेकधुरन्धरः ॥१६॥
गुरुवरैरथ सङ्घमहाजनैनयनविस्तृतिवाहितया श्रुतः । ध्वनिरमुष्य गभीरिमसम्भृत उपमितस्सहसा सह सागरैः ॥१७।।
सहजवत्सलमातृसगोत्रतां प्रियकरैर्वचनैखि बिभ्रता । शुभवता भवता मम सह्यतां दुरपराधपराऽधरवञ्चना ॥१८॥
१००
श्रीमाणिभद्रमहाकाव्यम् ६