SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ स्वाभाविकी प्रशान्तिमुपपादितवाँश्चेत्यहोऽस्य प्रतिबद्धता । साक्षीभूय विलोकिता मया सा इत्यपि महत्सौभाग्यमिति मन्ये ।। इक्षुक्षेत्रकल्पस्यास्य महाकाव्यस्य प्रत्येकं वृत्तं रससान्द्रं चर्वणालसान् प्रति वृत्ति विना अनास्वाद्यं स्यात्कदाचिदिति पर्यायविवरणादिमल्लिनाथीमतिक्रम्य रसास्वादमाविर्भावयन्तीं स्वोपज्ञामेव इक्षुरसपात्रकल्पां वृत्तिं विधायोपकरोतु सहृदयान् । रसप्रधानकाव्यपरम्परामुपजीव्य च साहित्यविश्वे जैनकवीनां स्थानं पुनःप्रतिष्ठापयतु चेति शुभमाशंसते व्याख्यानवाचस्पतीनां पूज्यतमचरणानामाचार्यप्रवराणां विजयरामचन्द्रसूरीश्वराणां विनेयो २०६३, निजज्येष्ठशुक्लतृतीयातिथौ रविवासरे वैराग्यरतिविजयः श्रीचन्द्रप्रभस्वामिवसतौ पार्ला-मुम्बापुर्याम्
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy