________________
सिद्धान्तमहोदधौ कोल्हापुरनिपाण्योश्च,
राजकोटपुरे तथा । पिण्डवाडापुरे लाल
बागे सान्ताक्रुझेऽपि च ।।१२२ ।। अपरेऽप्यद्वितीयाश्च,
प्रतिष्ठादिमहोत्सवाः । बभूवुः प्रेमसूरेस्ते,
निश्रयाधिकशोभिताः ।।१२३।। युग्मम् ।।
अन्याञ्जनशलाकानां,
भव्यभव्यश्रियामपि । प्रतिष्ठानां तथा चोप
धानानां च महोत्सवाः ।।१२४ ।।
-
सङ्घाश्चोद्यापनाश्चापि,
बभूवुस्सुप्रभावकाः । सूरिप्रेमकृपादत्त
सान्निध्यपरिशोभिताः ।।१२५ ।। युग्मम् ।।
पञ्चदशशतैर्युक्त
मुपधानतपस्विभिः । उपधानं बभूवोच्चै
रिलाबीजेऽद्वितीयकम् ।।१२६।। ૧. પિંડવાડા વીરવિક્રમપ્રાસાદની આ અદ્દભુત પ્રતિષ્ઠા તે કાળે સમગ્ર ભારતમાં બેજોડ હતી. આ પ્રતિષ્ઠાના મધુર સંસ્મરણો ‘પરમ પ્રતિષ્ઠા' કાવ્યમાં આલેખાયા છે. જેનું આગામી કાળે પ્રકાશન થશે. - जिनशासनाभावना