________________
इमां पद्धतिमवलम्ब्य भवद्भिः गाथाः कण्ठस्थीकृताः चेत् वर्षाणि यावत् भवन्तः ताः गाथाः न विस्मरिष्यन्ति । अन्तरा कुत्रचित् एकाऽपि गाथा अर्दवितर्दा न भविष्यति । किञ्च, २५ तमी ४७ तमी वा गाथा का ? इति शोधनमपि सरलं भविष्यति । यतः पञ्चानां पञ्चानामेव गाथानाम् आद्याक्षराणि संगृह्य तानि न्यस्तानि सन्ति 1 परावर्तनारूपस्वाध्याये एका गाथाऽपि न लुप्ता भविष्यति । कदाचित् सा लुप्ता स्यात् चेत् झटिति भवन्तः ज्ञास्यन्ति अस्मिन् स्थाने इयं गाथा स्वस्ता विस्मृता वा ।
मा मन्यन्तां भवन्तः यत् इयं नवीना पद्धतिरस्ति इति । इयं तु प्राचीना एव पद्धतिः पूर्वाचार्यैः आचीर्णा च । चैत्यवन्दन-भाष्यग्रन्थादिषु सम्पदाऽविस्मरणार्थं पद्धतिमिमां प्रयुक्तवन्तः एव तत्कर्तारः श्रीदेवेन्द्रसूरयः । यथा द्वादशाऽधिकाराः कथं स्मरणीया: ?
नमु जे अ अरिहं लोग सव्व पुक्ख तम सिद्ध जो देवा; उज्जि चत्ता वेआ वच्चग अहिगार पढम पया ॥ (चैत्यवन्दनभाष्यम् ४२ ) (अत्र द्वित्राणि अक्षराणि गृहीतानि एतावानेव विशेषः । यतः अस्माभिः अकारं विहाय एकमेवाक्षरं गृहीतम् ।)
'नमु' तः 'नमुत्थुणं'
'जे अ' तः 'जे अ अईआ' 'अरिहं' तः 'अरिहंत चेइआणं'
'लोग' तः 'लोगस्स उज्जो अगरे' इत्यादिकम् । इमामेव पद्धतिमत्र वयम् दर्शितवन्तः । प्रारम्भसमये विचित्ररूपेण दृश्यमानानानाम् एषां पदानां कण्ठस्थीकरणे प्रयासः सम्भवेत् तथापि स प्रयास: नैव व्यर्थतां गमिष्यति अपितु तत्तत्प्रकरणादिकस्य अधिकदृढीकरणे अत्यन्तं सहायकं भविष्यति ।
सकृत् प्रयोगे कृते भवन्तः ज्ञास्यन्ति । अनया पद्धत्या स्तवन- स्वाध्याय (सज्झाय) - चैत्यवन्दनादीनि कण्ठस्थीकृतानि भविष्यन्ति चेत् वर्षाणि यावत् भवन्तः तानि न विस्मरिष्यन्ति ।
अधिक समयाऽभावे एषाम् आद्याक्षरपदानां पुनरावर्तनमात्रेण तत्तत्प्रकरणपुनरावर्तनतुल्यः लाभः भविष्यति । अस्माभिस्तु एकस्मिन् लघु'नोटबुके' चतुःप्रकरणादीनाम् आद्याक्षराणि केवलं लिखितानि तद्द्वारा च कार्य निर्वहामः । अनया पद्धत्या नूतनाः विद्यार्थिनस्तु लाभान्विताः भविष्यन्ति एव किन्तु पुराणा: विद्यार्थिनः अपि केवलं आद्याक्षराणि कण्ठस्थानि करिष्यन्ति चेद् विस्मृतसूत्राणि पुनः स्मृतानि कर्तुं प्रभविष्यन्ति । अत्र मनागेव प्रयासः आवश्यकः ।
अस्माभिः अयं प्रयोगः विहितः । नूतनविद्यार्थिनः अपि अस्मिन् प्रयोगे अस्माभिः नियोजिताः सन्ति । अस्मिन् बहवः लाभाः अस्माभिः दृष्टाः । अन्येऽपि एतान्
१०