________________
मुनिः पठितुमागतं नाऽवगणयेत्, अपि तु वात्सल्यपूर्वकं पाठयेत् । एवंकरणात् अव्यवच्छित्तिः स्यात् ।
(पञ्चवस्तुक ५६५-५६६) अहं चेत् शिष्यान् पाठयिष्यामि, तेऽपि तच्छिष्यप्रशिष्यादीन् पाठयिष्यन्ति । इत्थं सम्यक् परम्परा चलिष्यति ।
अतः एव सिद्धयनन्तरं विनियोगः दर्शितोऽस्ति । प्रणिधान-प्रवृत्ति-विघ्नजय-सिद्धि-प्राप्त्यनन्तरमपि विनियोगः चेत् न प्राप्तः, ज्ञानं सानुबन्धं न भवेत् भवान्तराऽनुयायि न भवेत् ।
न दृश्येत चेत् कोऽपि अध्ययनार्थी , स्वयमेव कमपि आहूय पाठयन्तु ।
पुष्पं विकासाऽनन्तरं सौरभं प्रसारयति तथा भवानपि अध्ययनानन्तरं ज्ञान-सौरभं प्रसारयतु । तच्च विनियोगादेव सम्भवति ।
इत्थमेव तीर्थपरम्परा चलिष्यति । जिनशासनस्य चलन्त्यां अखण्ड-परम्परायां वयं मनागपि निमित्तत्वं प्राप्नुयाम, ईदृशं भाग्यं कुतः ?
बीजं स्थायि भवेत् । बीजं स्यात् चेत् वृक्षप्राप्तिः स्वयमेव भविष्यति । श्रुतज्ञानं किल बीजम् ।
अत्र अल्पवयसः बहवः साधवः साध्व्यश्च सन्ति । इदं श्रुत्वा अध्ययनाऽध्यापने अग्रगामिनः भवन्तः भविष्यन्ति उत सन्तोषिणः एव ? अत्र सन्तोषः खलु अपराधः ।
किन्तु तत् ज्ञानम् अहङ्कारं न जनयेत् इत्यत्रापि प्रतिजागरणीयम् । एतदर्थं भागवती भक्तिः उपादीयताम् ।
'जिम जिम अरिहा सेवीए रे, तिम तिम प्रगटे ज्ञान' यथा यथा अर्हन् सेव्येत, तथा तथा ज्ञान प्रादुर्भवेत् ।
धनार्जनाऽनन्तरं तत्संरक्षणं कियत् कष्टपूर्णमेतत् चेत् भवन्तः न जानन्ति पृच्छन्तु कञ्चित् अनुभविनम् ।
भो दिनेशमहाभागाः ! ("दिनेश रवजी महेता, भुवड-कच्छ, सम्प्रति मद्रास" इति परिवारद्वारा तदानीं उपधानाऽनुष्ठानं चलद् आसीत् वांकी तीर्थे ) सत्यमिदं खलु ? मनाग् अनवधानतायामेव धनं विनश्यति ।
ज्ञानेऽपि एवमेव । ज्ञानार्जनाऽनन्तरमपि तत्संरक्षणं किल कष्टपूर्णम् । ज्ञान - संरक्षणमिच्छन्ति चेत् भवन्तः अन्यान् पाठयन्तु । अन्यान् पाठयिष्यन्ति भवन्तः चेत् भवन्त एव पुनः पठिष्यन्ति । भवतां ज्ञानं सुरक्षितं भविष्यति ।
अहमपि वाचनादिषु यत् कथयामि तदेव ज्ञानं तिष्ठति, अवशिष्टं विनश्यति ।
इह वयं ११० साधु-साध्व्यः स्मः । १५-२० वृद्धान् विहाय अन्ये तु अध्ययनाऽध्यापनक्षमाः सन्ति एव ।
इत्थम् अध्ययनाऽध्यापनकरणात् किं प्राप्नोति मुनिः तत् जानन्ति भवन्तः ? तीर्थकरनामकर्माऽपि स बध्नीयात् इति हरिभद्रसूरयः कथयन्ति ।
(कहे कलापूर्णसूरि-१, पृ. ४०७ तः ४२१)