________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
जननी जन्मभूमिश्च, प्रिया सामान्यजन्मिनाम् । जन्मभूमिः कथं प्रीत्यै, ह्रिये जन्मैव यत्तयोः ॥ ११३ ॥
'सामान्यजन्मिनां' साधारणप्राणिनाम् । 'जननी जम्मभूमिश्च' माता मातृभूमिश्च । 'प्रिया' अभीष्टा भवति । यदुक्तम्"जणणी य जम्मभूमी, पच्छिमनिद्दा सुहासियं वयणं । मणइ8 माणुस्सं, पंचवि दुक्खेण मुच्चंति ॥" लङ्काविजयानन्तरं लक्ष्मणं प्रति रामकथनम्-"अपि स्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते । जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी ॥" "तयोः' शालिधन्ययोः । जन्मभूमिः कथं प्रीत्यै स्यात् ? 'यत्' यस्मात् । तयोः जन्म एव हिये-लज्जायै बभूव ॥ ११३ ॥
लोकानां स्वजनग्रामसीमाऽऽलोकः सुखायते । विश्वाऽपि सदृशी विश्वा, जगन्मित्रतया तयोः ॥ ११४ ॥
'लोकानां' सामान्यनराणाम् । 'स्वजनग्रामसीमालोकः' स्वजनग्रामसीमानां स्वजनानां स्वग्रामाणां स्वग्रामसीमानां | च आलोक:-दर्शनम् । 'सुखायते' सुखकारणं भाति । 'तयोः' शालिधन्ययोः । 'जगन्मित्रतया' विश्वसुहत्तया सूर्यतया वा। 'विश्वाऽपि' सकलाऽपि, 'विश्वा' पृथ्वी । 'सदृशी' समाना अस्ति । यदुक्तम्
'अयं निज: परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥" ॥ ११४ ।। अथ श्रीवीरनाथोऽपि, सुमनः श्रेणिसेवितः । अवाततार वैभारगिरिश्रृङ्गे वसन्तवत् ॥ ११५ ॥
अथ श्रीवीरनाथोऽपि । 'वसन्तवत्' वसन्तर्तुवत् । 'वैभारगिरिश्रृङ्गे' वैभारादिशिखरे । सुमनः श्रेणिसेवितः' सुमनसां-देवानां श्रेणिभिः सेवितः । वसन्तपक्षे पुष्पाणां श्रेणिभिः सेवित: । 'अवावतार' अवतरति स्म ॥ ११५ । ।
त्रिप्राकारपरीवेषं, त्रिलोकीतिलकोपमम् । अध्यासामास समवसरणं रत्नवद् विभुः ॥ ११६ ॥
82828282828282828282828282828282888
॥ २७१ ॥