________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
एकपुत्राऽहमबला, बालश्च तव नन्दनः । तेन केन बलेनावां, निर्दाक्षिण्य ! विमोक्ष्यसि ॥ २५ ॥ 'अहं एकपुत्रा' एकः एव शालिभद्रः पुत्रः यस्याः सा ।' अबला' बलहीना स्त्रीत्यर्थ: । तव बालश्च शालिः नन्दनः लघुवयाः । 'तेन' तस्मात् । केन बलेन। 'आवां' बालं च मां च । 'निर्दाक्षिण्य' हे आनुकूल्यरहित!। 'विमोक्ष्यसि' त्यक्ष्यसि ? ॥ २५ ॥ प्रेमहेलामहेलां मां, महिलामवमन्यसे । बालं लक्ष्मीलताऽऽवालं, नाऽलं भोक्तुं भवानपि ॥ २६ ॥
'प्रेमहेलां' स्नेहविलासाम् । 'अहेलां' हीलना अवज्ञा तया रहिताम् । मां महिलां स्त्रियम् । 'अवमन्यसे' उपेक्षां कुरुषे अपि । किन्तु 'लक्ष्मीलताऽऽवालं' लक्ष्मीलतायाः आवालं सिञ्चनस्थानकम् । 'बालं' शालिभद्रम् । 'मोक्तुं' त्यक्तुम् । भवानपि नाऽलं न समर्थः । ॥ २६ ॥
पद्मिनीं पदयोर्लग्नां, पुन्नागः प्रसभं क्षिपेत् । विमुञ्चत्यङ्गजं पद्मं, कथं गम्भीरवेद्यपि ॥ २७ ॥
'पदयोः' चरणयोः | लग्नाम् । 'पद्मिनी' प्रियाम् । हस्तिपक्षे - कमलिनीम् । 'पुन्नागः ' श्रेष्ठपुरुषः । पक्षे श्रेष्ठकुञ्जरः । 'प्रसभं' बलात् । ‘क्षिपेत्' दूरीकुर्याद् अपि । किन्तु । 'अङ्गजं' पुत्रम् । पक्षे - अङ्गजातम् । 'पद्मं' पद्मसमम् । पक्षेबिन्दुजालम् । तारुण्ये हि हस्तिनो देहे पद्मवद् रक्ताः बिन्दवः स्युः तत् 'पद्म' इति प्रोच्यते । 'गम्भीरवेदी' गम्भीरवेत्ता । पक्षे - गम्भीरवेदी गजः । तल्लक्षणं चेदम्-त्वग्भेदाच्छोणित श्रावा-दामांस व्यथनादपि । संज्ञां न लभते यस्तु, गजो गम्भीरवेद्यसौ । एतादृगपि गम्भीरवेदी गजः अपि कथं विमुञ्चति ? गम्भीरवेद्यपि गजः पदलग्नां कमलिनीं विमुञ्चति किन्तु स्वशरीरस्थं बिन्दुजालं मोक्तुं न शक्नोति तद्वत् त्वमपि मां विमुञ्चसि किन्तु पुत्रं कथं विमुञ्चसि ? || २७ ॥
बालेन मृदुनैकेन, स्नेहार्हेण सुतेजसा । वशामपि श्रियं व्याला-मालानयसि धिक् कथम् ॥ २८ ॥
xxx
तृतीय:
प्रक्रमः
॥ १०२ ॥