________________
વીર ! મધુરી વાણી તારી
श्रीमहादेवाष्टक
यस्य संक्लेशजननो रागो नास्त्येव सर्वथा। न च द्वेषोऽपि सरवेषु, शमेन्धनदवानलः ।।१।। न च मोहोऽपि सज्ज्ञान-छादनोऽशुद्धवृत्तकृत्। त्रिलोकख्यतमहिमा, महादेवः स उच्यते ।।२।। युग्मम्। यो वीतरागः सर्वज्ञो य: शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीत: सर्वथा निष्कलस्तथा ।।३।। यः पूज्य: सर्वदेवाां, यो ध्येय: सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां महादेवः स उच्यते ।।४।। एवं सवृत्तयुक्तेन, येन शास्त्रमुदाहृतम् । शिववर्त्म परं ज्योति: त्रिकोटिदोषवर्जितम् ।।५।।
यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि। यथाशक्तिविधानेन नियमात्स फलप्रदः ।।६।।
सुवैद्यवचनाद्यद्वद्, व्याधर्मवति संक्षयः । तद्वदेव हि तद्वाक्याय, ध्रुवः संसारसंक्षयः ।।७।। एवंभूताय शान्ताय, कृतकृत्याय धीमते । महादेवाय सततं सम्यग्भक्त्या नमोनमः ।।८।।