________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वामेव बालारुणमण्डलाभ, स्मृत्वा जगत् त्वत्करजालदीप्रम् । विलोकते यः किल तस्य विश्वं, विश्वं भवेत् वश्यमवश्यमेव. यस्तप्त चामीकरचारु दीप्रं, पिङ्गः प्रभं त्वां कलयेत् समन्तात् सदा मुदा तस्य गृहे सहेलिं, करोति केलिं कमला चलाऽपि. यः श्यामलं कज्जलमेचकाभं, त्वां वीक्षते वा तुषधूमधूम्रम्। त्रिपक्ष पक्षः खलुतस्य वाताहताऽभ्रवद् यात्यचिरेण नाशम्. आधारकन्दोद्गततन्तु सूक्ष्म लक्ष्योदभवं ब्रह्मसरोज वासम् । यो ध्यायति त्वां स्रवदिन्दुबिम्बा मृतं च स्यात् कविसार्वभौमः. षड्दर्शनी स्वस्वमतापलेपैः, स्वे दैवते तन्मय बीजमेव ।
For Private And Personal Use Only