________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
C
Acharya Shri Kailassagarsuri Gyanmandir
Acha
स्वर्ग मोक्षं पदं धत्ते, विद्येयं फलदायिनी. ११ करोति मानवं विज्ञमज्ञं, मानविवर्जितम् । समानं स्यात् पंचसुगुरोविद्यैका सुखदा परा १२
हींकार विद्या स्तवन सर्वण पार्श्व लय मध्यसिद्धमधीश्वरं भास्वरूप भासम् । खण्डेन्दु बिन्दु स्फुटनाद शोभं, त्वां शक्ति बीजं प्रमनाः प्रणौमि. ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमन्त्रम् । त्रैलोक्यवर्णं परमेष्ठिबीजं, विज्ञाः स्तुवन्तीश भवर्तामत्थम्. शिष्यः सुशिक्षा सुगुरोरवाप्य, शुर्चीवशी धीरमनाश्च मौनी। तदात्मबीजस्य तनोतु जापमुपांशु, नित्यं विधिना विधिज्ञः. त्वां चिन्तयन् श्वेतकरानुकारं, ज्योत्स्नामयीं पश्यति यस्त्रिलोकीं श्रयन्ति तं तत्क्षणतोऽनवद्यविद्या कलाशान्तिक पौष्टिकानि.
४
८०
For Private And Personal Use Only