________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नादश्चन्द्रसमाकारो, बिन्दु।ल समप्रभः; कलारूणसमासान्तः, स्वर्णाभः सर्वतोमुखः शिरः सँल्लीन इकारो, विनीलो वर्णतः स्मृतः; वर्णानुस्वारसंलीनं, तीर्थकृन्मंडलं स्तुमः चंद्रप्रभ-पुष्पदन्तौ, नादस्थिति-समाश्रितौ; बिन्दुमध्यगतौ नेमि-सुव्रतौ जिन सत्तमौ. पद्मप्रभ-वासुपूज्यौ कलापदमधिष्ठितौ; शिरइ-स्थितिसंलीनौ, पार्श्वमल्ली जिनोत्तमौ. ऋषभं चाजितं वन्दे, संभवं चाभिनन्दनम्; श्रीसुमतिं सुपार्श्व च, वन्दे श्रीशीतलं जिनम्. श्रेयांसं विमलं वंदे, ऽनन्तं श्रीधर्मनाथकम्; शान्तिं कुन्थुमराहन्तं नमिं वीरं नमाम्यहम् . षोडशैवं जिनानेतान्, गाङ्गेयद्युतिसन्निभान्; त्रिकालं नौमि सद्भक्त्या, हराक्षरमधिष्ठितान्. शेषास्तीर्थकृतः सर्वे, हरस्थाने नियोजिताः; मायाबीजाक्षरं प्राप्ताश्चतुर्विंशतिरर्हताम् गतराग-द्वेष-मोहाः, सर्वपाप-विवर्जिताः; सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः
५८
For Private And Personal Use Only