________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगम्; नमामि बिम्बमार्हन्त्यं, ललाटस्थं निरञ्जनम् अक्षयं निर्मलं शान्तं, बहुलं जाडयतोज्झितम्; निरीहं निरहंकारं, सारं सारतरं घनम्. अनुद्धतं शुभं स्फीतं, सात्त्विकं राजसम्मतम्; तामसं चिरसंबुद्धं, तैजसं शर्वरीसमम् . साकारं च निराकारं, सरसं विरसं परम्; परापरं परातीतं, परंपरपरापरम्. एकवर्ण द्विवर्ण च, त्रिवर्णं तुर्यवर्णकम्; पंचवर्णं, महावर्ण, सपरं च परापरम्. सकलं निष्कलं तुष्टं, निर्वृत्तं भान्तिवर्जितम्; निरंजनं निराकारं, निर्लेपं वीतसंशयम्. इश्वरं ब्रह्मसम्बुद्धं, शुद्धं सिद्धं मतं गुरूम्; ज्योतीरूपं महादेवं, लोकालोकप्रकाशकम्. अर्हदाख्यस्तुवर्णान्तः, सरेफो बिन्दुमण्डितः; तुर्यस्वर-समायुक्तो, बहुधा नादमालितः अस्मिन् बीजे स्थितास्सर्वे, ऋषभाद्या जिनेश्वराः; वणैर्निजैनिजैर्युक्ता, ध्यातव्यास्तत्र संगताः
५७
For Private And Personal Use Only