________________
६४]
પતંજલિના યોગસૂત્રો
[41. १ सू. २४
वशात्तथैवेश्वरचित्तसत्त्वभावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठते प्रणिधानसंस्कारात् । तस्मादनादित्वादीश्वरप्रणिधानसत्त्वोपादानयोः शाश्वतिकत्वेन नान्योन्यसंश्रयः । न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यम् । यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्राधानिक नापि चितिशक्तिरज्ञत्वादित्यर्थान्तरमप्रमाणिकमापद्येत । तच्चायुक्तम् । प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात् । सोऽयमीदृश ईश्वरस्य शाश्वतिक उत्कर्षः । किं सनिमित्तः सप्रमाणक आहोस्विनिनिमित्तो निष्प्रमाणक इति । उत्तरं-तस्य शास्त्र निमित्तम् । श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् ।
__ चोदयति-शास्त्रं पुनः किं निमित्तम् । प्रत्यक्षानुमानपूर्वं हि शास्त्रम् न चेश्वरस्य सत्त्वप्रकर्षे कस्यचित्प्रक्षत्यमनुमानं वास्ति । न चेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि ह्ययं ब्रूयादात्मैश्वर्यप्रकाशनायेति भावः । परिहरति-प्रकृष्टसत्त्वनिमित्तम्। अयमभिसंधिः-मन्त्रायुर्वेदेषु तावदीश्वरप्रणीतेषु प्रवृत्तिसामर्थ्यादर्थाव्यभिचारविनिश्चयात्प्रामाण्यं सिद्धम् । न चौषधिभेदानां तत्संयोगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैलौकिकप्रमाणव्यवहारो शक्तः कर्तुमन्वयव्यतिरेको । न चागमादन्वयव्यतिरेको ताभ्यां चागमस्तत्संतानयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तत्संतानयोविच्छेदात् । न च तद्भावे प्रमाणाभावः । अभिन्नं प्रधानविकारो जगदिति हि प्रतिपादयिष्यते । सदृशपरिणामस्य च विसदृशपरिणामता दृष्टा । यथा क्षीरेक्षुरसादेर्दधिगुडादिरूपा । विसदृशपरिणामस्य पूर्वं सदृशपरिणामता च दृष्टा । तदिह प्रधानेनापि महदहङ्कारादिरूपविसदृशपरिणामेन सता भाव्यं कदाचित्सदृशपरिणामेनापि । सदृशपरिणामश्चास्य साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदप्रणयनात्तावद्भगवतो विगलितरजस्तमोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्त्वप्रकर्षादेव भवितुमर्हति । न च सत्त्वोत्कर्षे रजस्तमःप्रभवौ बिभ्रमविप्रलम्भौ संभवतः । तत्सिद्वं प्रकृष्टसत्त्वनिमित्तं शास्त्रमिति ।
स्यादेतत्-प्रकर्षकार्यतया प्रकर्ष बोधयच्छास्त्रं शेषवदनुमानं भवेन त्वागम इत्यत आह-एतयोरिति । न कार्यत्वेन बोधयत्यपि त्वनादिवाच्यवाचकभावसंबन्धेन बोधयतीत्यर्थः । ईश्वरस्य हि बुद्धिसत्त्वे प्रकर्षों वर्तते, शास्त्रमपि तद्वाचकत्वेन तत्र वर्तत इति । उपसंहरति-एतस्माद् ईश्वरबुद्धिसत्त्वप्रकर्षवाचकाच्छास्त्रादेतद्भवति ज्ञायते विषयेण विषयिणो लक्षणात्सदैवेश्वरः सदैव मुक्त इति । तदेवं पुरुषान्तराद्व्यवच्छिद्येश्वरान्तरादपि व्यवच्छिनत्ति-तच्च तस्येति । अतिशयविनिर्मुक्तिमाहन तावदिति । कुतः-यदेवेति । कस्मात्सर्वातिशयविनिर्मुक्तं तदैश्वर्यमित्यत आह