________________
પા. ૧ સૂ. ર૪] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[૬૩
वासनास्ताश्चित्तभूमावाशेरत इत्याशयाः । न हि करभजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावितां भावनां न यावदभिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते । तस्माद्भवति करभजात्यनुभवजन्मा भावना करभविपाकानुगुणेति । नन्वमी क्लेशादयो बुद्धिधर्मा न कथंचिदपि पुरुषं परामशन्ति । तस्मात्पुरुषग्रहणादेव तदपरामर्शसिद्धेः कृतं क्लेशकर्मेत्यादिनेत्यत आह-ते च मनसि वर्तमाना: सांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात्, स हि तत्फलस्य भोक्ता चेतयितेति । तस्मात्पुरुषत्वादीश्वरस्यापि तत्संबन्धः प्राप्त इति तत्प्रतिषेध उपपद्यत इत्याह- यो ह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । विशिष्यत इति विशेषः । पुरुषान्तराद्व्यवच्छिद्यते ।
विशेषपदस्य व्यावर्त्य दर्शयितुकामः परिचोदनापूर्वं परिहरति-कैवल्यं प्राप्तास्तहीति । प्रकृतिलयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणादिबन्धो दिव्यादिव्यविषयभोगभाजाम् । तान्यमूनि त्रीणि बन्धनानि । प्रकृतिभावनासंस्कृतमनसो हि देहपातानन्तरमेव प्रकृतिलयतामापना इति तेषां पूर्वा बन्धकोटिः प्रज्ञायते, तेनोत्तरकोटिविधानमात्रम् । इह तु पूर्वापरकोटिनिषेध इति । संक्षिप्य विशेषं दर्शयति-स तु सदैव मुक्तः सदैवेश्वर इति । ज्ञानक्रियाशक्तिसंपद ऐश्वर्यम् ।
अत्र पृच्छति-योऽसाविति । ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः संभवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्वसमुत्कर्षेण सह स्वस्वामिभावः संबन्धः संभवतीत्यत उक्तंप्रकृष्टसत्त्वोपादानादिति । नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश्चित्तसत्त्वेन स्वस्वामिभावः, किं तु तापत्रयपरीतान्प्रेत्यभावमहार्णवाज्जन्तूनुद्धरिष्यामि ज्ञानधर्मोपदेशेन । न च ज्ञानक्रिया सामर्थ्यातिशयसंपत्तिमन्तरेण तदुपदेशः । न चेयमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्यविद्यया । अविद्याभिमानी चाविद्यायास्तत्त्वमविद्वान्भवति न पुनरविद्यामविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन्भ्रान्तो भवति । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति । स्यादेतत्-उद्दिधीर्षया भगवता सत्त्वमुपादेयं तदुपादानेन च तदुद्दिधीर्षा, अस्या अपि प्राकृतत्वात् । तथा चान्योन्यसंश्रय इत्यत उक्तं-शाश्वतिक इति । भवेदेतदेवं यदीदंप्रथमता सर्गस्य भवेत् । अनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ्जगत्संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितप्रधानसाम्यमुपगतमपि परिपूर्णे महालयावधौ प्रणिधानवासना