________________
પા. ૪ સૂ. ૩૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [૪૭૧
परिणामापरान्तनिर्ग्राह्यः क्रमः । परिणामक्रम: क्षणप्रतियोगी, क्षणः प्रतिसंबन्धी यस्य स तथोक्तः, क्षणप्रचयाश्रय इत्यर्थः । न जातु क्रमः क्रमवन्तमन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात्क्षणप्रचयाश्रयः परिशिष्यते । तदिदमाहक्षणानन्तर्यात्मेति । परिणामक्रमे प्रमाणमाह- परिणामस्येति । नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानम् । तेन हि परिणामस्य क्रमः । ततः प्रागपि पुराणतायाः सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलस्थूलतरस्थूलतमत्वादीनां पौर्वापर्यमनुमीयते । एतदेव व्यतिरेकमुखेन दर्शयति-न हीति । अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता । नन्वेष क्रम: प्रधानस्य न संभवति, तस्य नित्यत्वादित्यत आह-नित्येषु चेति । बहुवचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते ।
तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति-द्वयोति । ननु कूटस्थं स्वभावादप्रच्युतमस्तु नित्यम्, परिणामि सदैव स्वरूपाच्च्यवमानं कथं नित्यमित्यत आह-यस्मिन्निति । धर्मलक्षणावस्थानामुदयव्ययधर्मत्वम्, धर्मिणस्तु तत्त्वादविघात एवेति । अथ किं परिणामापरान्तनिर्ग्राह्यता सर्वक्रमस्य, नेत्याह-तत्र गुणधर्मेषु बुद्ध्यादिष्विति । यतो लब्धपर्यवसानो धर्माणां विनाशात् । प्रधानस्य तु परिणामक्रमो न लब्धपर्यवसान: । ननु प्रधानस्य धर्मरूपेण परिणामादस्तु परिणामक्रमः, पुरुषस्य त्वपरिणामिनः कुतः परिणामक्रम इत्यत आह-कूटस्थेति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात्तत्परिणामेन परिणामाध्यासः । मुक्तानां चास्तिक्रियामुपादायावास्तवोऽपि परिणामो मोहकल्पितः, शब्दस्य पुरःसरतया तत्पृष्ठो विकल्पोऽस्तिक्रियामुपादत्त इति ।
गुणेष्वलब्धपर्यवसान: परिणामक्रम इत्युक्तम् । तदसहमानः पृच्छति-अथेति । स्थित्येति महाप्रलयावस्थायाम् । गत्येति सृष्टौ । एतदुक्तं भवति- यद्यानन्त्यान्न परिणामसमाप्तिः संसारस्य, हन्त भोः कथं महाप्रलयसमये सर्वेषामात्मनां सहसा समुच्छिद्येत, कथं च सृष्ट्यादौ सहसोत्पद्येत संसारः ? तस्मादेकैकस्यात्मनो मुक्तिक्रमण सर्वेषां विमोक्षादुच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः । एवं च प्रधानस्याप्यनित्यत्वप्रसङ्गः । न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनानन्त्यं स्यात्, तथा सत्यनादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः । उत्तरमाह-अवचनीयमनुत्तरार्हमेतत् । एकान्तत एव तस्यावचनीयतां दर्शयितुमेकान्तवचनीयं प्रश्नं दर्शयतिअस्ति प्रश्न इति । सर्वो जातो मरिष्यतीति प्रश्नः । उत्तरम्- ॐ भो इति । सत्यं भो इत्यर्थः ।