________________
४३०]
પતંજલિનાં યોગસૂત્રો
[पा. ४ सू. १३
ते व्यक्तसूक्ष्मा गुणात्मानः ॥१३॥ એ ત્રણે કાળમાં રહેતા ધર્મો વ્યક્ત અને સૂમરૂપમાં રહે છે, અને ગુણો એમનું મૂળ સ્વરૂપ છે. ૧૩
भाष्य ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः । सर्वमिदं गुणानां संनिवेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥ १३॥
આ ત્રણ કાળવાળા ધર્મો વર્તમાનમાં વ્યક્તરૂપવાળા અને અતીત તેમજ અનાગતમાં સૂક્ષ્મરૂપવાળા હોય છે, તથા છ અવિશેષ રૂપ હોય છે. આ બધું (જગત) ગુણોનો વિશેષ સંનિવેશમાત્ર છે, તેથી હકીકતમાં બધું ગુણાત્મક છે. આ વિષે શાસ્ત્ર ઉપદેશ છેઃ
“सोनू ५२म (भूग) ३५ दृष्टिगोय२ यतुं नथी. वामां मावे છે, એ માયાની જેમ અત્યંત તુચ્છ છે.”૧૩
तत्त्ववैशारदी स्यादेतत्-अयं तु नानाप्रकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधानादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्यभेदसंभव इत्यत आह- ते व्यक्तसूक्ष्मा गुणात्मानः । ते त्र्यध्वानो धर्मा व्यक्ताश्च सूक्ष्माश्च गुणात्मानो न त्रैगुण्यातिरिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद्वैचित्र्यात् । यथोक्तं वायुपुराणे
वैश्वरूप्यात्प्रधानस्य परिणामोऽयमद्भुतः ॥ (५३/१२०)
इति । व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानागतत्वं षडविशेषा यथायोगं भवन्ति । संप्रति विश्वस्य नित्यानित्यरूपे विभजन्नित्यरूपमाहसर्वमिदमिति दृश्यमानम् । संनिवेशः संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः । मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाह्नायैवान्यथा भवत्येवं विकारा अप्याविर्भावतिरोभावधर्माणः प्रतिक्षणमन्यथा ।