________________
પા. ૩ સૂ. ૪૪] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૩૭૧
सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः । प्रत्यस्तमितभेदावयवानुगतः-शरीरं वृक्षो यूथं वनमिति । शब्देनोपात्तभेदावयवानुगतः समूहः-उभये देवमनुष्याः, समूहस्य देवा एको भागो मनुष्या द्वितीयो भागः । ताभ्यामेवाभिधीयते समूहः ।
स च भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां सङ्घः, आम्रवणं ब्राह्मणसङ्घ इति ।।
स पुनर्द्विविधो युतसिद्धावववोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः सातः-शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगत: समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् ।
__ अथ किमेषां सूक्ष्मरूपम् ? तन्मानं भूतकारणम् । तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम् ।
अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः ।।
अथैषां पञ्चमं रूपमर्थवत्त्वम्, भोगापवर्गार्थता गुणेष्वन्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीभूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥४४॥
પૃથ્વી વગેરેના શબ્દ વગેરે વિશેષ આકાર વગેરે ધર્મો સાથે “સ્કૂલ” એવા પારિભાષિક નામથી ઓળખવામાં આવે છે. ભૂતોનું આ પહેલું રૂપ છે. એમનું બીજું રૂપ પ્રત્યેકને સામાન્ય એવું પૃથ્વીનું મૂર્તિ (આકાર), જળનું સ્નેહ, અગ્નિની ઉષ્ણતા, વાયુની વહનશીલતા અને આકાશની વ્યાપકતા “સ્વરૂપ” એવી પારિભાષિક સંજ્ઞાથી ઓળખાય છે. આ સામાન્યોના શબ્દ वगेरे विशेषो छ. मा विषेधुंछ : “मे (सामान्य) तिना साधा પોતપોતાના ધર્મોથી ભિન્ન જણાય છે.”