________________
उEE]
પતંજલિનાં યોગસૂત્રો
[41. 3 सू. ४१
श्रोत्रमाहङ्कारिकमयःप्रतिममयस्कान्तमणिकल्पेन वक्तृवक्त्रसमुत्पन्नेन वक्त्रस्थेन शब्देनाकृष्टं स्ववृत्तिपरम्परया वक्तृवक्त्रमागतं शब्दमालोचयति । तथा च दिग्देशवर्तिशब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्यतीति । तथा च पञ्चशिखस्य वाक्यम्-तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तुल्यदशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः । सर्वेषां श्रवणान्याकाशवर्तीनीत्यर्थः । तच्च श्रोत्राधिष्ठानमाकाशं शब्दगुणतन्मात्रादुत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादीशब्दान्गृह्मति । तस्मात्सर्वेषामेकजातीया श्रुतिः शब्द इत्यर्थः । तदनेन श्रोत्राधिष्ठानत्वमाकाशस्य शब्दगुणत्वं च दर्शितमिति । तच्चैकदेशश्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येकजातीया शब्दव्यञ्जिका श्रुतिर्यदाश्रया तदेवाकाशशब्दवाच्यम् । न हीदृशीं श्रुतिमन्तरेण शब्दव्यक्तिः । न चेदृशी श्रुतिः पृथिव्यादिगुणः । तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानुपपत्तेरिति । अनावरणं चाकाशलिङ्गम् । यद्याकाशं नाभविष्यदन्योन्यसंपिण्डितानि मूर्तानि न सूचीभिरप्यभेत्स्यन्त । ततश्च सर्वैरेव सर्वमावृतं स्यात् । न च मूर्तद्रव्याभावमात्रादेवानावरणम् । अस्याभावस्य भावाश्रितत्वेन तदभावेऽभावात् । न च चितिशक्तिस्तदाश्रया भवितुमर्हति । अपरिणामितयावच्छेदकत्वाभावात् । दिक्कालादयः पृथिव्यादिद्रव्यव्यतिरिक्ताः सन्ति । तस्मात्तादृशः शब्दतन्मात्रस्य परिणतिभेदो नभस एवेति सर्वमवदातम् ।
अनावरणे चाकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्राकाशमिति सर्वगतत्वमप्याकाशस्य सिद्धमित्याह-तथाऽमूर्तस्येति । श्रोत्रसद्भावे प्रमाणमाहशब्दग्रहणेति । क्रिया हि करणसाध्या दृष्टा । यथा छिद्रादिस्यिादिसाध्या । तदिह शब्दग्रहणक्रिययापि करणसाध्यया भवितव्यम् । यच्च करणं तच्च श्रोत्रमिति । अथास्याश्चक्षुरादय एव कस्मात्करणं न भवन्तीत्यत आह-बधिराबधिरयोरिति । अन्वयव्यतिरेकाभ्यामवधारणम् । उपलक्षणं चैतत् । त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयो सिकापृथिव्योः संबन्धसंयमाद्दिव्यत्वगाद्यप्यूहनीयम् ॥४१॥
સ્વાર્થ (પુરુષવિષે) સંયમથી શ્રાવણ વગેરે અવાન્તર ફળરૂપે સિદ્ધ થાય છે, એમ અગાઉ કહ્યું. હવે શ્રાવણ વગેરે માટે સંયમ કરવાથી શ્રાવણાદિ સિદ્ધ થાય छ म "श्रोत्राशयो:" वगैरे सूत्राथी छ. "सर्वश्रोत्रामाशं प्रति...." વગેરેથી ભાગ્યકાર સંયમના વિષયરૂપ શ્રોત્ર અને આકાશના આધાર-આયભાવને કહે છે. અહંકારથી ઉત્પન્ન થતાં બધાં શ્રોત્રોની કાનના છિદ્રરૂપ આકાશ પ્રતિષ્ઠા છે, અને શ્રોત્રનું આયતન (રહેઠાણ) છે. કારણ કે એના ઉપકાર કે અપકારથી શ્રોત્રનો ઉપકાર કે અપકાર થતો દેખાય છે. શ્રોત્રના સહકારી પૃથ્વી વગેરેના શબ્દોને ગ્રહણ કરવાના હોય, ત્યારે કાનના છિદ્રમાં રહેલી શ્રોત્ર-ઇન્દ્રિય, પોતાના આશ્રય આકાશમાં