________________
પા. ૩ સૂ. ૨૬] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી
सुमेरोः संनिवेशमाह- सुमेरुरिति ।
तदेवं भूर्लोकं सप्रकारमुक्त्वा सप्रकारमेवान्तरिक्षलोकमाह-ग्रहेति । विक्षेपो
व्यापारः ।
[ ३४८
स्वर्लोकमादर्शयति- माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । षण्णामपि देवनिकायानां रूपोत्कर्षमाह - सर्वे संकल्पसिद्धा इति । संकल्पमात्रादेवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः । कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रो: संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति ।
महर्लोकमाह-महतीति । महाभूतवशिनः । यद्यदेतेभ्यो रोचते तत्तदेव महाभूतानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति ।
जनलोकमाह-प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादीनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते ।
उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह - द्वितीय इति । भूतेन्द्रियप्रकृतिवशिन इति । प्रकृतिः पञ्च तन्मात्राणि तद्वशिनः । तदिच्छातो हि तन्मात्राण्येव कायाकारेण परिणमन्त इत्यागमिनः । द्विगुणेति । आभास्वरेभ्यो द्विगुणायुषो महाभास्वराः । तेभ्योऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्यर्थः । उर्ध्वमित्यूर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभृत्या तपोलोकं सूक्ष्मव्यवहितादि सर्वं विजानन्तीत्यर्थः ।
तृतीयं ब्रह्मणः सत्यलोकमाह - तृतीय इति । अकृतो भवनस्य गृहस्य न्यासो यैस्ते तथोक्ताः । आधाराभावादेव स्वप्रतिष्ठाः । स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः। प्रधानवशिनः । तदिच्छातः सत्त्वरजस्तमांसि प्रवर्तन्ते यावत्सर्गायुषः । यथा च श्रूयते
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥
(कूर्मपु० १।१२।२७३; तुल० वायु १०११८५ ) इति ।
तदेवं चतुर्णां देवनिकायानां साधारणधर्मानुक्त्वा नामविशेषग्रहणेन धर्मविशेषानाह-तत्रेति । अच्युता नाम देवा: स्थूलविषयध्यानसुखाः । तेन ते तृप्यन्ति । शुद्धनिवासा नाम देवाः सूक्ष्मविषयध्यानसुखाः । तेन ते तृप्यन्ति । सत्याभा नाम देवा इन्द्रियविषयध्यानसुखाः । तेन ते तृप्यन्ति । संज्ञासंज्ञिनो नाम देवा अस्मिता