________________
પા. ૩ સૂ. ૨૬] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ३४५
प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अजरामरा इति । एते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः ।
द्वितीये तपसि लोके त्रिविधो देवनिकायः महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहाराः ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः ।
आभास्वरा
तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया:-अच्युताः शुद्धनिवासाः सत्याभाः संज्ञासंज्ञिनश्चेति । ते चाकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरि स्थिताः प्रधानवशिनो यावत्सर्गायुषः ।
तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासज्ञिनश्चास्मितामात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति । एतद्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा ततोऽन्यत्रापि । एवं तावदभ्यसेद्यावदिदं सर्वं दृष्टमिति ॥ २६ ॥
એનો (ભુવનનો) વિસ્તાર સાત લોક સુધી છે. એમાં અવીચિથી શરૂ કરીને મેરુ પૃષ્ઠ સુધી ભૂર્લોક છે. મેરુ પૃષ્ઠથી ધ્રુવ સુધી ગ્રહ, નક્ષત્ર, તારા વગેરેથી વિચિત્ર જણાતો અન્તરિક્ષલોક છે. ત્યાર પછી ત્રીજો સ્વર્લોક છે. એ પાંચ પ્રકારનો છે અને મહેન્દ્રલોક કહેવાય છે. ચોથો મહર્લોક प्राभयत्य उहेवाय छे. जाना पछी त्रिविध ब्रह्मसोङ छे. ठेभडे (पांयमो ४नसोड, (छठ्ठो) तपोलोङ अने (सातमो) सत्यलोड - ए ब्रह्मसोड छे. जा विषे गाथा छे :
“ब्राह्म त्रिभूमिङ छे. खेनी पछी (नीचे) महान् પ્રજાપતિલોક છે. પછી માહેન્દ્રસ્વર્લોક છે. પછી ઘુલોકમાં તારા અને પૃથ્વીમાં પ્રજા છે.”
લોકોને વર્ણવતો આ ટૂંકો શ્લોક છે.