________________
પા. ૩ સૂ. ૨૬] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [ ૩૪૩ ૪
तत्त्व वैशारदी प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । सूक्ष्मे व्यवहिते विप्रकृष्टे वार्थे संयमनं विन्यस्य तमधिगच्छति ॥२५॥
- સૂક્ષ્મ, અવરોધવાળા, અને દૂરના પદાર્થો પર સંયમનો ન્યાસ કરી, એમનું જ્ઞાન મેળવે છે. ૨૫
भुवनज्ञानं सूर्ये संयमात् ॥२६॥ સૂર્યમાં સંયમ કરવાથી ભુવન (વિશ્વ)નું જ્ઞાન થાય છે. ૨૬
भाष्य तत्प्रस्तारः सप्तलोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवंभूर्लोकः । मेरुपृष्ठादारभ्य ध्रुवाद् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो, माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः । तद्यथा- जनलोकस्तपोलोकः सत्यलोक इति।
ब्राह्यस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् ।
माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ॥ इति संग्रहश्लोकः ।
तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्त्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घकालमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुतल-वितलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि । तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः । स्वच्छः पश्चिमः । कुरण्डकाभ उत्तरः। दक्षिणपार्वे चास्य जम्बूः । यतोऽयं जम्बद्वीपः । तस्य सूर्यप्रचाराद्रात्रिन्दिवं लग्नमिव विवर्तते । तस्य