________________
पा. 3 सू. १८] व्यासथित माध्य भने वायस्पति मिश्ररयित तraवैशाह [333
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥ સંસ્કારોનો સાક્ષાત્કાર કરવાથી પૂર્વજન્મનું જ્ઞાન થાય છે. ૧૮
भाष्य द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा, विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षातक्रियायै समर्थः । न च देशकालनिमित्तानुभवैविना तेषामस्ति साक्षात्करणं, तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् ।
अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् । अथ भगवानावट्यस्तनुधरस्तमुवाच-दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति ? भगवन्तमावट्यं जैगीषव्य उवाच-दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि । भगवानावट्य उवाच-यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति ? भगवाजैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्, कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणाः, त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखस्वरूपस्तृष्णातन्तुः, तृष्णादुःखसंतापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥१८॥
સંસ્કારો બે પ્રકારના છે : સ્મૃતિ અને ક્લેશના હેતુરૂપ તેમજ કર્મ વિપાકના હેતુ ધર્માધર્મરૂપ. તેઓ પૂર્વજન્મમાં પોતાના કારણોથી ઉત્પન્ન થયેલા અને પરિણામ, ચેષ્ટા, નિરોધ, શક્તિ અને જીવનની જેમ અપરિદષ્ટ ચિત્તધર્મો છે. એમાં સંયમ સંસ્કારોનો સાક્ષાત્કાર કરાવવામાં સમર્થ છે. અને